________________
[३५
10
द्वितीयः सर्गः]
दृष्ट्वा सिंहपुराधीशसुताऽप्येतं तथोद्यतम् । अन्तःसञ्जातसङ्घट्टा, पृथिव्यामपतत् तदा ॥२७९।। बलादथ समाकृष्य, रभसादपराजिता । भाषते स्म मुदा स्मेरवदना मेदिनीपतिम् ॥२८०।। साहसं वत्स ! मा कार्षीरहं तुष्टाऽस्मि सर्वथा । तवोपरोधात् पश्यायं, जीवितं लम्भितोऽधमः ॥२८१।। इत्युक्त्वा योगिनस्तस्य, जीवितव्यमिवाङ्गवत् । शबप्राये शरीरेऽन्तश्चिक्षेपाम्भ: कमण्डलोः ॥२८२॥ कुमारीमपि तामेवमभिषिच्याऽपराजिता । स्वयमुज्जीवयामास, घनलेखालतामिव ॥२८३।। अथ जीवन्तमालोक्य, कुमारी धरणीधवम् । विमर्श-विस्मयस्मेरा, मुमुदे कुमुदेक्षणा ॥२८४॥ अन्तश्चित्तं प्रविष्टोऽथ, तदा तस्या रतेरिव । लोकोत्तरगुणः सोऽयं, पतिः सङ्कल्पजोऽभवत् ॥२८५।। तदा दधे धराधीशमनोऽपहरणार्थिनः । तस्या विलोकितं साचि, साचिव्यं चित्तजन्मनः ॥२८६॥ अवोचत पुनर्देवी, नरेन्द्रमपराजिता । तवोपरोधात् तुष्टाऽहं, महात्मन्नस्य योगिनः ॥२८७।। सत्त्वरत्नाम्बुधेरस्य, दर्शनायैव लालसः । कर्मसाक्षी तदाऽऽरोहत् , प्राचीनाचलचूलिकाम् ॥२८८।। अत्रान्तरेऽभवद् भूरिनि:स्वानस्वनमांसलः । दिक्कुक्षिम्भरिरत्युच्चैः, कोऽपि कोलाहलो महान् ।।२८९।। ददर्शास्यानुसारेण, चक्षुर्दिक्षु क्षिपन्नयम् । क्षोणिनाथः क्षणेनाथ, पृतनां कृतिनांवरः ॥२९०।। किमेतदिति विस्मेरविलोचनमथो नृपम् ।
सैन्यादस्मादुपागत्य, कश्चिन्नत्वा व्यजिज्ञपत् ।।२९१।। १. ष्टोऽयं, त° खंता० ॥
20
D:\maha-k.pm5\2nd proof