________________
३४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एतस्य सत्त्वपर्यन्तपरीक्षार्थं मया पुरा । अकृत्यमिदमादिष्टमपूर्णे पूर्वकर्मणि ॥२६६।। वत्स ! तत् सर्वमुत्सृज्य, मन्त्रानुष्ठानमुतमम् । वञ्चितोऽयं मया लोभान्निष्कृपं कर्म निर्ममे ॥२६७।। अभीरोरस्य पापेषु , लोकद्वयविरोधिनः । हीनसत्त्वस्य तत्त्वज्ञ !, कुतः सिद्धिर्भवत्वसौ ? ॥२६८॥ पुंसः पद्माकरस्येव, क्षीणसत्त्वाम्बुजस्थितेः । श्रीर्वशं कथमायातु , भ्रमरीव चलाचला ? ॥२६९।। दुरात्मनस्तदेतस्य, हेतवे त्वं महीपते ! । रत्नगर्भामिमामात्मशून्यां नो कर्तुमर्हसि ॥२७०।। अथापि क्रियतामेवं, परोपकृतिकर्मठ ! । यदि स्यादुपकारोऽस्य, कश्चिद् दुश्चरिताम्बुधेः ।।२७१।। निवृत्तायामथैतस्यां, रेजे भूपतिभारती । सत्क्रियानन्तरं कान्ता, सात्त्विकस्याऽऽयतिर्यथा ॥२७२।। यदेव देवि ! साध्येऽर्थे, निषेधाय त्वयोच्यते । तदेव प्रत्युतात्यर्थं, प्रवृत्तिं प्रति कारणम् ॥२७३।। ततस्त्वं मां शिरश्छेदप्रतिज्ञापूरणोद्यतम् । निवारयन्ती तुष्टाऽपि, कष्ट रुष्टाऽसि तत्त्वतः ॥२७४।। प्रसादसादरं मातः !, प्रतिज्ञातार्थवारणात् । निघ्नत्या मे यशोदेहं, किं ते सम्प्रति साम्प्रतम् ? ॥२७५।। यदि भग्नप्रतिज्ञोऽपि, जीवलोकेऽत्र जीवति । वद तद्देवि ! को नाम, मृत इत्यभिधीयताम् ? ॥२७६॥ ततस्त्वं यदि तुष्टाऽसि, तत् प्रयाहि यथाऽऽगतम् । शिरश्छेदाक्षमोऽप्येष, विशाम्यग्नौ यथा स्वयम् ॥२७७॥ इत्युक्त्वैव समुत्तस्थौ, झम्पार्थं स विभावसौ । न हि सत्त्ववतां किञ्चिदशक्यं प्रतिभासते ॥२७८॥
20
25
१. वत्यसौ वता० ॥
D:\maha-k.pm5\2nd proof