________________
10
द्वितीयः सर्गः]
पृथ्वीनाथोऽप्यथाकस्मात् , किञ्चिन्मूच्छितचेतनः । अशृणोद् दिव्यनारीणां, हाहाकारं नभस्तले ॥२५३।। लब्धसंज्ञश्च वर्षन्ती, पीयषं स्वकमण्डलोः ।। स्फारतारोत्करेणेव, मुक्ताहारेण हारिणीम् ॥२५४।। चन्द्रोज्ज्वलमुखीं स्वच्छचन्दनस्यन्दसुन्दराम् । सेवागताभिः स्वःस्त्रीभिश्चकोरीभिरिवावृताम् ॥२५५।। नेत्रनीलोत्पलानन्दमन्दिरं सुन्दराकृतिम् । ददर्श पुरतो देवी, ज्योत्स्नामिव शरीरिणीम् ॥२५६॥ विशेषकम् ।। अथो जगाद सा देवी, सैवाहमपराजिता । वत्स ! त्वत्साहसेनाऽऽशु, तुष्टाऽस्मि वृणु वाञ्छितम् ॥२५७।। अथ प्रणम्य तां राजा, रम्यतामधिकं दधत् । जगाद देवि ! मे श्रेयस्तरुरद्य फलेग्रहिः ॥२५८।। यतस्त्वं मम तुष्टासि, शिरच्छेदार्थमर्थिनः । तदिदं प्रार्थये मातः !, प्रसादः क्रियतां मयि ॥२५९॥ बाहुस्तम्भे तथा स्तम्भ, निशुम्भय भयापहे । शिरश्छेत्तुमलम्भूष्णुर्यथाऽयं जायते क्षणात् ॥२६०।। एवं प्रतिज्ञानिर्वाहव्रतरक्षणतो मम ।। उपकारो महान् देवि !, भवेदेव न संशयः ॥२६१॥ मम कार्यं न राज्येन, न धनैर्न वधूजनैः । यदि तुष्टाऽसि सत्येन, तदिदं क्रियतां त्वया ॥२६२।। नैवं चेत् कर्तुमुत्साहो, मत्साहसवशादथ । योगिनोऽस्य ततः स्पष्टमिष्टसिद्धिर्विधीयताम् ॥२६३।। अथ देवी पुनः प्राह, नाहमस्य दुरात्मनः । प्राणानपि प्रयच्छामि, दूरेऽभीष्टार्थसाधनम् ॥२६४॥ अयं हि जगतीनाथ !, स्त्रीवधारम्भपातकी ।
भवादृशां वधादात्मसिद्धिं दुष्टः समीहते ॥२६५।। १. न्दिरां सु° खंता० ॥
D:\maha-k.pm5\2nd proof