________________
३२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तदहं युवयोस्त्राणकृते कायममुं त्यजन् । अर्जयश्च यशोदेहं, शाश्वतं ग्रहिलः कथम् ? ॥२४०।। अनिच्छतोऽप्यथैतस्य, करादाच्छिद्य भूपतिः । अन्तकभ्रकुटीभीमं, खड्गमव्यग्रमग्रहीत् ॥२४१।। उपकारिणमासाद्य, खड्गं स्नेहस्पृशा दृशा । वीक्षाञ्चक्रे सुधावर्षैः, स नृपः स्नपयन्निव ॥२४२।। अथ निस्त्रिंशदुर्दर्शः, स्मेरद्वदनपङ्कजः । भीषणो रमणीयश्च, तदा राजा रराज सः ॥२४३।। अथ व्यापारयामास, कृपाणं पाणिना नृपः । सादरं मुदितो मौलिकमले कमलेक्षणः ॥२४४॥ दरिद्र इव सम्प्राप्य, परमान्नं सुदुर्लभम् । मुदे स तदा स्कन्धे, लब्ध्वा खड्गस्य सङ्गमम् ॥२४५।। रोमाङ्करभरैरूज़मुद्धरैः स तदा बभौ । अभ्युत्थानार्थमत्यर्थं, खड्गायेव समुत्थितैः ॥२४६।। अथाकस्माद् द्विषच्छेददक्षिणोऽपि न दक्षिणः । बाहुर्बभूव भूभर्तुः, खड्गव्यापारणक्षमः ॥२४७।। बाहुस्तम्भेन तेनोच्चैरन्तःसन्तापवान् नृपः । मन्त्रान्निग्रहमापन्नः, पन्नगेन्द्र इवाभवत् ॥२४८।। अथ यावदयं धीरः कपाणं वामपाणिना । अग्रहीत् साहसोत्साहधुरीणो धरणीधरः ॥२४९॥ घर्षणोत्थाग्निदुर्द्धर्षे, कण्ठे दम्भोलिसन्निभे । भेजेऽसिः कुण्ठतां तावन्मदनेनेव निर्मितः ॥२५०।। युग्मम् ॥ अथ यावच्छिरश्छेत्तुं , स्वेन स्वमयमक्षमः । तदर्थं प्रार्थयामास, योगिनं जगतीपतिः ॥२५१॥ जीर्णमूलद्रुवत् तावद् , वातेन क्रूरकमणा ।
शठात्मा स महीपीठे, योगीन्द्रः पुरतोऽपतत् ॥२५२॥ युग्मम् ।। १. भरै रुद्धमुद्ध पाता० ॥
20
25
D:\maha-k.pm5\2nd proof