________________
[३१
द्वितीयः सर्गः]
सौभाग्य-भाग्ययोर्गेह, देहं त्वन्यार्थमुत्सृजन् । स्वार्थाद् भ्रष्टोऽसि दूरेण, स्वार्थभ्रंशो हि मूर्खता ॥२२७॥ यदि चात्मव्ययेनैतां, वनितां त्रातुमिच्छसि । ततः सकर्ण ! स्वर्णेन, क्रेतुं रीतिं समीहसे ॥२२८॥ भूपतिः प्राह भो मित्र !, तव स्नेहोचितं वचः । अन्यः कोऽपि पुनः स्वार्थः, परमार्थविदां मतः ॥२२९।। दानं धनं क्षमा शक्तिरुन्नतिर्गुरुसन्नतिः । स्वार्थः परार्थनिष्पत्तिर्मेने लोकोत्तरैर्नरैः ॥२३०॥ किञ्च प्राण्युपकाराय, प्रायः कायः क्षमो न चेत् । तदनेनाधमणेन, पोषितेनाधमेन किम् ? ॥२३१॥ बहुविघ्नः कृतनोऽयं, मुधैव यदि यास्यति । कायः परार्थे पुण्याय, किं न विक्रीयते ततः ? ॥२३२॥ दैवस्य वश्यः कायोऽयमवश्यं तेन गृह्यते । यदर्जितं ततः पुण्यमवैगुण्यं तदात्मनः ॥२३३॥ वयस्य ! यदि मे सत्यं, हिताय विहितादरः । तत् पवित्रः कृपाणोऽयं, पाणौ मम समर्प्यताम् ।।२३४।। विद्याधरकुमारोऽथ, योगिवेषधरोऽब्रवीत् । देव्या वचसि नैवास्ति, महात्मन् ! मम संशयः ॥२३५।। प्राणान् जगत्त्रयत्राणप्रवीणान् मोक्तुमुत्सुकः । स्त्रीमात्रस्य कृते राजन् !, जाने मूढोऽसि सर्वथा ॥२३६।। ग्रहिलो महिलात्राणकदाग्रहपरिग्रही । नाहं त्वमिव तद् भूप !, कृपाणं न तवार्पये ॥२३७।। पृथ्वीनाथोऽप्यभाषिष्ट, सभाशिष्टमिदं वचः । निर्विचारं विचारज्ञ !, त्वद्वचः प्रतिभाति मे ॥२३८।। क्षत्रियो हि क्षतात् त्राता, प्राप्नोत्यन्वर्थनामताम् ।
क्षत्रियस्याङ्गजत्वेन, मल एवान्यथा भवेत् ॥२३९॥ १. °न, मम स्यादधमर्णता खंता० ॥
20
D:\maha-k.pm5\2nd proof