________________
5
10
151
20
25
३० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् द्वात्रिंशल्लक्षणां नारीं, नरं वाऽद्भुतविक्रमम् । हुत्वाऽग्निकुण्डे त्वं वत्स !, वरेण्यं वृणुया वरम् ॥ २१४॥ अथैतदन्यथाकारं, करिष्यसि वचो मम । स्फुटिष्यति ततस्तूर्णं, मूर्धा तव सहस्रधा ॥ २१५॥ अन्तर्हितायां चैतस्यां, तदर्थं पृथिवीमटन् । दृष्ट्वा सिंहपुराधीशसुतामेतामिहानयम् ॥२१६॥
तन्महात्मंस्त्वमेतस्याः, प्राणत्राणपरायणः । सिद्धेर्मम परार्थैकनिघ्न ! किं यासि विघ्नताम् ? ॥२१७|| अस्या विवेकिन्नेकस्या, जीवितं ते समीहितम् । भूतधात्रीं परित्रातुर्न पुनर्नृपतेर्मम ॥२१८॥
भुवि ख्यातप्रथो वाचमथोवाच धराधवः ।
भद्र ! क्षुद्रधियां गच्छस्यध्वन्यध्वन्यतां कुतः ? ॥ २१९॥ परेषां पोष्यमात्मानं, सर्वे कुर्वन्ति जन्तवः । जगदण्यात्मनः पोष्यं, कश्चित्तु कुरुते पुमान् ॥२२०॥ निर्मथ्य धर्ममत्यर्थमर्थमावर्जयन्ति ये ।
द्रुमं समूलमुन्मूल्य, फलानि कलयन्ति ते ॥२२१॥ किञ्च दृष्टं श्रुतं वाऽपि, स्त्रीवधाद् देवतार्चनम् ? | तन्मन्ये वञ्चितोऽसि त्वं, छलाद् देवतया तया ॥२२२॥ अथ देव्या वचस्तथ्यं, तथाप्येषा विमुच्यताम् । हुत्वा मदीयं मूर्द्धानं, भव पूर्णमनोरथः ॥२२३॥ एवं च कुर्वता स्वस्य, कन्यायाश्च ननु त्वया । परार्थसिद्धिलुब्धस्य, ममाप्युपकृतं भवेत् ॥२२४॥ गिरं श्रुत्वेति गम्भीरामभयङ्करभूभुजः । योगीन्दुरवदद् दन्तद्युतिद्योतितदिङ्मुखः ॥२२५॥ अप्राकृतगुणाधारस्तवाकारोऽयमद्भुतः ।
प्राह साहसिकप्रज्ञामवज्ञातबृहस्पतिम् ॥२२६॥
१. 'मेनामि' पाता० खंता० ॥ २. त्रीपरि खंता० । ३. 'ज्ञानाव' पाता० ॥
D:\maha-k.pm5 \ 2nd proof