________________
[२९
द्वितीयः सर्गः]
अथ विश्वोपकारैकदीक्षितः क्षितिवल्लभः । निस्त्रिंशं धृतनिस्त्रिंशं, योगीन्द्रमिदमब्रवीत् ॥२०२।। महात्मन्नद्भुतस्फूर्तिरियं मूर्तिस्तवोर्जिता । साम्राज्यलक्षणैरेतैर्न ब्रूते योगिमात्रताम् ॥२०३॥ इदं लोकद्वयापथ्यं, कर्म धर्मविदांवर । न शक्यं वक्तुमप्युच्चैस्तत् किमर्थं त्वयाऽर्थ्यते ? ॥२०४।। सन्तो शपथपान्थानां, परेषां पथदेशकाः । आत्मनैव कथङ्कारं, प्रथयन्त्यपथे पदं ॥२०५॥ तदस्या ननु योगीन्द्र !, जीवितव्यप्रदानतः । अतिर्ने समेतस्य, कर्तुमातिथ्यमर्हसि ॥२०६।। अथ कन्याशिरोदेशाद् , विनिवर्तितया दृशा । पश्यन् नरेन्द्रं योगीन्द्रः, प्राह साहसिकाग्रणीः ॥२०७।। जगत्त्रयपवित्रेण, सच्चरित्रेण चामुना ।। श्रीपुषा वपुषा च त्वं, चक्रवर्तीव लक्ष्यसे ॥२०८।। तन्ममास्मिन्नकृत्येऽपि, प्रवृत्तेः शृणु कारणम् । विश्वासभाजनं कस्य, भवन्ति न भवादृशाः ? ॥२०९।। तुङ्गशृङ्गसमूहेन, नभः कवलयन्निव । अस्ति विस्तारवित्ताढ्यो, वैताढ्य इति पर्वतः ॥२१०॥ तत्राहमुत्तरश्रेणी, विद्याधरपतेः सुतः । कुलक्रमागतां विद्यामद्भुतामपराजिताम् ॥२११।। आराधयितुमारेभे, तथा तद्ध्यानमानसः । दिनेष्वपरिपूर्णेषु , साक्षादेषा यथाऽभवत् ॥२१२॥ युग्मम् ॥ अभाषिष्ट च तुष्टाऽस्मि, वत्स ! त्वत्सेवयाऽनया । मदाज्ञया पुनः सेवामुत्तरां कर्तुमर्हसि ॥२१३।।
१. वोचिता खंता० ॥ २. ण, सुचरि पाता० । ण सचरि खंता० ॥ ३. नेषु परि वता० खंता० ॥
D:\maha-k.pm5\2nd proof