________________
२८]
_[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाऽभयङ्करक्ष्मापस्तामापृच्छ्य बलादपि । कृतानुगमनान् पौरा-ऽमात्यादीन् विनिवर्त्य च ॥१८९।। विहाय वाहनश्रेणिमपि विश्राणितां स्वयम् । सत्पात्रदत्तसर्वस्वमात्मानमनुमोदयन् ॥१९०।। एकोऽप्यद्भुतमाहात्म्यात् , परिवारैरिवावृतः । पाणौ कृपाणं बिभ्राणः, प्रतस्थे तीर्थकौतुकी ॥१९१।। विशेषकम् ।। यामिन्यामन्यदा धीमानन्तःकान्तारगह्वरम् । सुश्राव करुणध्वानमध्वानमतिलवयन् ॥१९२॥ ध्वनेस्तस्यानुसारेण, करुणाञ्चितचेतनः । स विवेश विशामीशः, सत्वरं गिरिगह्वरम् ॥१९३।। तस्मिन् गुरुगुहागर्भव्यापारितविलोचनः । अपश्यन्मण्डलं कुण्डप्रज्वलज्ज्वलनोज्ज्वलम् ॥१९४।। तदन्तिकनिषण्णां च, वनितां नवयौवनाम् । शापादिव दिव स्रस्तां, पुरन्दरपुरश्रियम् ।।१९५।। जानुयुग्मान्तरन्यस्तव्यस्तालकमुखाम्बुजाम् । भय-शोकातिरेकेण, तनूकृततनुश्रुतिम् ॥१९६।। योगिनोद्यतखड्गेन, वीक्षितां क्रूरचक्षुषा । तनूमिव निशाभर्तुः, सैंहिकेयकटाक्षिताम् ॥१९७।। करवीरस्रजा रक्तचन्दनेन च चर्चिताम् । असौ विलोकयामास, विलपन्तीमिदं मुहुः ॥१९८॥ कलापकम् ।। दूरात्मनो मुखादस्य, निषादस्य हठादपि । योऽपकर्षति मां तेन, किमु शून्या जगत्त्रयी ? ॥१९९।। अहो ! मे मन्दभाग्याया, धर्मः स भगवानयम् । जगत्त्राणप्रवीणोऽपि, विपरीतो विवर्तते ॥२००॥ प्रणिपत्य क्रमौ कर्मसाक्षिन्नभ्यर्थये मुहुः । जगच्चक्षुरसि त्राता, तन्मे कश्चिद् विलोकताम् ॥२०१॥
25
D:\maha-k.pm5\2nd proof