________________
[२७
द्वितीयः सर्गः]
आश्रितस्य श्रिया पुंसः, स्युर्ये लोकम्पृणा गुणाः । त एव तद्विमुक्तस्य, जगदुद्वेगहेतवः ॥१७६॥ अभ्यधादथ भूमीन्दुस्त्वं लोकोचितमुचिवान् । तत्त्वस्पृशा दृशा किन्तु , सचिवोच्चैविवेचय ॥१७७।। श्रियो वा स्वस्य वा नाशे, येनावश्यं विनश्यते । श्रीसम्बन्धे बुधाः स्थैर्यबुद्धि बध्नन्तु तत्र किम् ? ॥१७८॥ अहमस्याः पतिः सेयं, ममैवेत्यभिमानिनः । भुवा भोगार्थिनः के वा, वेश्ययेव न वञ्चिताः ? ॥१७९॥ पत्रपात्रीव धात्रीयं, भुक्त्वा त्यक्ता महात्मभिः । विगृह्य गृह्यते लुब्धैः, कुक्कुरैरिव ठक्कुरैः ॥१८०॥ यः श्रियं सुकृतक्रीतीं, सुपात्रे नैव निक्षिपेत् । विदुषोऽप्यस्य सोत्कर्षा, कषुकादपि मूर्खता ॥१८१॥ वर्धयेद्धान्यबीजं हि, क्षेत्रे निक्षिप्य कर्षुकः । निधाय न पुनर्गेहे, मूलनाशं विनाशयेत् ॥१८२॥ पुंसस्तस्य वटस्येव, विटस्येव च वैभवम् । निःश्वस्य गम्यते यस्मादकृतार्थैः फलार्थिभिः ॥१८३॥ भाग्यैरावर्जितैर्लक्ष्मीस्त्यक्ताऽप्यभ्येति वेश्मनि । गृहादपि बहिर्याति, तैरनावर्जितैः पुनः ॥१८४॥ राज्यभूमीरुहो मूलं, श्रीवशीकारकार्मणम् । भाग्यमावर्जयन्तं मां, तन्मन्त्रिन् ! मा निवारय ॥१८५॥ प्रतिबोध्येति मन्त्रीशं, धात्रीशो मेघवाहनम् । भद्रपीठे प्रतिष्ठाप्य, प्रसभादभ्यषिञ्चत ॥१८६।। तस्मै राज्यश्रियं यच्छन् , धन्यां कन्यामिवात्मनः । देशं कोशं च सैन्यं च, सर्वमूर्वीपतिर्ददौ ॥१८७।। अभयङ्करदेवस्य, लोकमेकाग्रमानसः । आरादाराधयामास, सुतवन्मेघवाहनः ॥१८८।।
१. °क्ष्मीर्मुक्ताऽप्य पाता० । २. शो घनवाहनम् खंता० ॥ ३. "वद् घनवाहनः खंता० ।।
D:\maha-k.pm5\2nd proof