________________
२६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुमुदस्य श्रियं हृत्वा, निधत्ते रविरम्बुजे । इन्दुरप्युदयं प्राप्य, कुरुते तद्विपर्ययम् ॥१६३॥ राज्यं तन्मे त्वयाऽऽच्छिद्य, नृसिंहाय प्रयच्छता । आत्मा लोकोत्तरः सम्प्रत्येतयोः सदृशीकृतः ॥१६४॥ युग्मम् ।। जगदुच्छासिनः सन्तस्तुल्या हि स्वा-ऽन्यपक्षयोः । नासावंशा इवोत्तुङ्गा, वाम-दक्षिणनेत्रयोः ॥१६५॥ किञ्चोपकर्तुमार्तानामलङ्कर्मीणबुद्धिना । त्वादृशानां घनानां च, विदधे विधिना जनिः ॥१६६॥ राजेन्द्र ! तन्ममापि त्वं, ममत्वं हृदये दधत् । राज्यश्रीभ्रंशसन्तापव्यापदं हर्तुमर्हसि ॥१६७।। अथ पृथ्वीपतिः प्राह, लज्जावनमिताननः । यन्मे दूरस्थितस्याभूत् , तत् त्वया मृष्यतामिति ॥१६८।। मदभ्यर्थनया राज्यं, देश-कोश-बलान्वितम् । मामकीनमधिष्ठाय, त्वं सखे ! सुखितो भव ॥१६९।। उक्त्वेत्यस्याभिषेकाय, यावदादिशति स्म सः । मन्त्रीशः सुमतिस्तावत् , साक्षेपमिदमब्रवीत् ।।१७०।। वारं वारं विभो ! केयमनालोचितकारिता ? । प्राणैरप्यय॑ते राज्यं, यत् तत् त्याज्यं क्वचिद् भवेत् ? ॥१७१।। देशैकदेशो देशो वा, पादान्तिकमुपेयुषे । युक्तं यन्नृपपुत्राय, प्रेमपात्राय दीयते ॥१७२।। सकलं राज्यमुत्सृज्य, गात्रमात्रपरिच्छदः । कथं पत्नीजनस्यापि, स्वाननं दर्शयिष्यसि ? ॥१७३।। नृपतिस्तावदेवासि, यावल्लक्ष्मीरभङ्गा । भङ्गरायां पुनस्तस्यां, नृपत्तिर्भवसि क्षणात् ॥१७४॥ उह्यते निधनावस्थो, नरः स्कन्धेन बन्धुभिः । त्यज्यते निर्धनावस्थः, सोदरैरपि दूरतः ॥१७५॥
15
25
D:\maha-k.pm5\2nd proof