________________
द्वितीयः सर्गः]
[२५ जायन्ते जन्तवः कुक्षिम्भरयो भूरयो न किम् ? । परार्थाः सिद्धयो यस्य, स जातः स च जीवति ॥१५०॥ पात्रे हि योजिता विद्या, क्षेत्रे चारोपिता लता । मनोरथपथातीतं, प्रसूते फलमद्भुतम् ॥१५१॥ कामं कलासमृद्धोऽस्तु , सगर्वः शर्वरीवरः । क्षीणोऽपि पूज्यते किन्तु , कलाभिः प्रीणितामरः ॥१५२॥ इति सम्बोध्य मन्त्रीशं, मुहूर्ते शुभशंसिनि । खड्गसिद्धिं ददौ तस्मै, नृसिंहाय महीभुजे ॥१५३॥ कृतसाहायक: सैन्यैरदैन्यैः सिद्धवैभवः । सोऽजैषीत् सङ्गरोत्सङ्गे, तगरानगरीश्वरम् ॥१५४॥ क्षीणशक्तित्रयः सोऽपि, नृसिंहहृतवैभवः । व्यभावयदहो ! दैवं, नैवं मे हृदयेऽप्यभूत् ॥१५५।। भ्रष्टराज्यद्वयः सोऽहं, दुःस्थावस्थः करोमि किम् ? । अथवा यस्य साहाय्यादनेनौर्जित्यमर्जितम् ॥१५६।। अभयङ्करभूपालं, तमनुप्रविशाम्यहम् । येन स्याद् वह्निदग्धानां, वह्निरेव महौषधम् ॥१५७॥ युग्मम् ॥ विपश्चिदिति निश्चित्य, नगरी पुण्डरीकिणीम् । आगत्य नत्वा भूमीशं, समयज्ञो व्यजिज्ञपत् ॥१५८॥ देव ! त्वमेव नाम्नाऽपि, कर्मणाऽप्यभयङ्करः । नाममात्रेण कीटोऽपि, वर्ण्यते त्विन्द्रगोपकः ॥१५९॥ स्युर्यस्मिन्नथिसार्थस्य, फलवन्तो मनोरथाः । तेनैव नररत्नेन, रत्नगर्भेति भूरभूत् ॥१६०॥ तदेवं देव ! नावा, विद्यते त्वयि किञ्चन । परं तथापि वाल्लभ्यात् , त्वमुपालभ्यसे मया ॥१६१।। अहं हि तगरापुर्यां, नृपतिर्घनवाहनः ।
हृतराज्यो नृसिंहेन, त्वत्प्रसादोन्मदिष्णुना ॥१६२॥ १. द्धोऽपि, सगर्वः खंता० ॥
20
D:\maha-k.pm5\2nd proof