________________
२४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् $$ अथान्यदाऽस्य भूभर्तुर्धर्मासनमुपेयुषः ।
सद:सदनमभ्येत्य, प्रतीहारो व्यजिज्ञपत् ॥१३८।। प्रभो ! पुष्पपुरस्वामी, नृसिंह: सिंहविक्रमः । बहि: स्वल्पपरीवारो, देवपादान् दिदृक्षते ॥१३९।। अथ भूभर्तुरादेशात् , प्रावेशयदसौ नृपम् । सोऽप्यासन्नासनासीनः, सप्रश्रयमदोऽवदत् ॥१४०।। दुःखधर्मोपतप्तस्य, जगतो जीवनं द्वयम् । पुष्करावर्तमेघो वा, सज्जनो वाऽद्भुतोदयः ॥१४१॥ श्रितोऽस्ति त्वां जगन्मित्रं, तज्जीवितमहीतलम् । विपक्षेण क्षयं नीतः, शीतद्युतिरिवारुणम् ॥१४२।। तगरानगरीशेन, यतोऽकारणवैरिणा । विगृह्य जगृहे राज्यं, बलिना च्छलिना च मे ॥१४३।। तत्खड्गविद्यादानादित्वदवष्टम्भवैभवात् । यथा श्रियं श्रयामि स्वां, पृथ्वीनाथ ! तथा कुरु ॥१४४।। इति विज्ञापितो राजा, प्रतिश्रुत्य तथैव तत् । प्राहिणोत् प्रतिहारेण, सहितं स्वागताय तम् ॥१४५।। अथोचे सुमतिर्मन्त्री, स्वच्छ ! स्वच्छन्दचारिता । वारिता नीतिशास्त्रेषु , कथमाद्रियते त्वया ? ॥१४६।। अस्मै साहाय्यकामाय, सिद्धिर्दातुं न बुध्यते । आरामिकः किमारामं, दत्ते पुष्प-फलार्थिनाम् ? ॥१४७॥ चतुरङ्गचमू-देश-कोशप्रभृतिभिः प्रभो ! । स्वगृहाङ्गणमायातं, तत् कृतार्थय पार्थिवम् ॥१४८।। भूपोऽभ्यधत्त मन्त्रीश !, समीचीनमिदं वचः ।
किन्तु वन्ध्याः कला यासां, न परोपकृतिः फलम् ॥१४९॥ १. तो जनः खंता० ॥
15
D:\maha-k.pm5\2nd proof