________________
[२३
10
द्वितीयः सर्गः]
एतावतैव धन्योऽस्मि, दृष्टवान् यत् तव क्रमौ । तद् विद्यया किमद्यापि, कृत्यं सद्विद्य ! विद्यते ? ॥१२५।। सिद्धिसौधाग्रसोपानं, श्रीवशीकारकारण् । कल्याणसम्पदादर्शो, दर्शनं हि महात्मनाम् ॥१२६॥ योगीन्द्रोऽप्यब्रवीद् भद्र !, जगद्भद्रङ्करश्रियः । भवन्ति हि भवादृक्षाः, कल्पवृक्षा इव क्षितौ ॥१२७।। परं तथाऽपि मे विद्यां, गृहाणानुगृहाण माम् । ऋणं गुरोर्मयि च्छिन्दन्नुपकारपरो भव ॥१२८।। इत्युक्त्वा खड्गसिद्धि तां, दत्त्वा सत्त्वानुरञ्जितः । योगीन्द्रः प्रापयामास, कुमारं पितुरन्तिके ॥१२९।। अथाकस्मान्नृपो दृष्ट्वा, तं समायातमात्मजम् । नगरं कारयामास, महोत्सवमयं तदा ॥१३०॥ पृथ्वीनाथेन पूर्वेषामथ प्रस्थास्नुना पथि । कुमारो राज्यदानार्थमथितोऽत्यर्थमब्रवीत् ॥१३१॥ गृह्णामि नाहं साम्राज्यं, तात ! पातकपातकम् । कर्तुमभ्युत्सहे किन्तु , त्वत्सेवामेव केवलम् ॥१३२॥ यातस्ताताग्रतः पद्भ्यां, प्रियाः प्रस्वेदबिन्दवः । न तु मे त्वद्विमुक्तस्य, मौलौ मुक्ताफलस्रजः ॥१३३॥ अनिच्छतोऽप्यथैतस्य, क्षेमङ्करनरेश्वरः । अर्पयामास साम्राज्यमभिषेकपुरःसरम् ॥१३४।। अथ क्षेमङ्करः क्ष्माभृद् , दक्षो दीक्षामुपाददे । अभयङ्करभूपालः, पालयामास तु क्षितिम् ॥१३५।। राज्यभारधुरं बिभ्रन् , न्यायधर्मधुरन्धरः । अयमानन्दयामास, प्रजा इव निजाः प्रजाः ॥१३६।। तस्य कल्पद्रुमस्येव, सर्वतोऽप्युपकुर्वतः । दिशोऽधिवासयामास, प्रजा इव निजाः प्रजाः ॥१३७।।
20
25
१. “मागत° खंता० पाता० ॥ २. पातुकम् पाता० ॥
D:\maha-k.pm5\2nd proof