________________
२२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तम:कञ्चकमाच्छिद्य, करैरुज्ज्वलयन् मुखम् । निशाकृशाङ्ग्याः प्राणेशो, दूरदेशादुपागमत् ॥११२।। अथ पृथ्वीपतेः पुत्रः, पवित्रस्तेन योगिना । जगादेकमहाबाहुर्जगदे मुदितात्मना ॥११३॥ सन्ति मे शतशो विद्या, निरवद्या नृपात्मज ! । तासामथ यथापात्रं, क्वचित् काश्चिन्नियोजिताः ॥११४।। परमद्यापि विद्याऽस्ति, खड्गसिद्धिनिबन्धनम् । ममैका साऽनुरूपस्य, पात्रस्याभावतः स्थिताः ॥११५।। एतस्याः सिद्धविद्यायाः, स्मरणेन रणे नरः । भवेदपि परोलक्षविपक्षविजयक्षमः ॥११६।। यद्यपि प्राप्य यो विद्यां, कयाचिदपि शङ्कया । नियोजयति नान्यत्र, स विद्यावधपातकी ॥११७।। तथापि तस्याः सत्पात्रं, प्राप्नोति न यदा नरः । तदा श्रेयस्तमो मन्ये, निराम्नायः किल क्षयः ॥११८॥ युग्मम् ।। असङ्क्रामितविद्यस्य, मम स्यादधमर्णता । असत्पात्रे तु विन्यासो, विद्याविप्लवकारणम् ॥११९॥ आयुश्च स्वल्पमेवैतदितो व्याघ्र इतस्तटी । इति कर्तव्यतामूढमानसो यावदस्म्यहम् ॥१२०॥ तावद् विद्येयमागत्य, स्वयमेव पुरो मम । चिन्तां त्वं वत्स ! मा कार्षीरित्यवोचत सादरम् ॥१२१।। अद्य प्रातर्गुणग्रामरामणीयकमन्दिरम् । समानेष्यामि सत्पात्रभूतं कमपि पूरुषम् ॥१२२।। त्रैलोक्यमण्डनप्राये, तस्मिन् मां पुरुषाद्भुते । सम्यग् विन्यस्य सन्न्यस्य, शरीरं त्वं सुखी भव ॥१२३।। अथैतया त्वमानीतः, प्रेषितान्निजचेटकात् ।
प्रतिपद्यस्व तद् विद्यामित्युक्ते सोऽप्यदोऽवदत् ॥१२४।। १. शादथाऽऽगमत् खंता० पाता० ॥ २. वता० पाता० युग्मम् इति नास्ति ॥
20
25
D:\maha-k.pm5\2nd proof