________________
[२१
द्वितीयः सर्गः]
स्वागतं भवतः श्रीमान् !, राजपुत्राऽभयङ्कर !। मया त्वमत्रानीतोऽसि विनीत ! हितहेतवे ॥९९।। सोऽप्यूचे स्वागतं तात !, त्वयि दृष्टे ममाधुना । यत् पुण्यं जन्मिनां जन्म, दर्शनेन महात्मनाम् ॥१००॥ इत्थं वदत एवास्य, कुमारस्य क्षणादयम् । विधिवद् विदधे ध्यानमानन्दैकमना मुनिः ॥१०१।। अथाम्बरपथेनैव, भास्वरस्वर्णभाजना। आगान्मत्र्येष्वसम्भाव्या, भव्या रसवती पुरः ॥१०२।। जगाद योगी राजेन्दुनन्दनं तदनन्तरम् । अतिथिस्त्वं ममाद्यासि, कुमार ! कुरु भोजनम् ॥१०३।। अथ स्वर्णमयं स्थालं, स्वयमेव पुरोऽभवत् । यथेष्टभोज्यसम्पूर्णमेकैकमुभयोस्तयोः ॥१०४॥ कृतभोजनयोर्जज्ञे, करकः पुरतोऽम्बरे । तेन प्रदत्ताचमनावुभावप्युत्थितौ ततः ॥१०५।। अथ हुङ्कारमात्रेण, योगिनोऽस्य महात्मनः । यथाऽऽयातं तथा यातं, रसवत्या तया पुनः ॥१०६।। चन्दना-ऽगुरु-कर्पूरपूरसौरभसम्भृतम् । ताम्बूलमुभयोः पाणौ, कुतोऽप्युपनतं स्वयम् ॥१०७।। अथो यथोचिते स्थाने, सुखविश्रान्तयोस्तयोः । अयत्नोपनतं वेण-वीणादिध्वनिबन्धरम ||१०८।। स्थान-मान-यति-ग्राम-लयत्रयपवित्रितम् । तदा तत्राभवद् दिव्यं, सङ्गीतं प्रीणितश्रुति ॥१०९।। युग्मम् ॥ इत्थं विनोदसन्दोहैस्तस्यापहृतचेतसः । ययौ निदाघदीर्घोऽपि, निमेष इव वासरः ॥११०।। तेजश्छटासटे याते, तदा देशान्तरं हरौ । भ्रान्तैरिभनिभैर्ध्वान्तैर्नभ:काननमानशे ॥१११।।
D:\maha-k.pm5\2nd proof