________________
२०]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् किमेतदिति तस्याथ, विस्मयस्मितचेतसः । तथैवावस्थितस्याप, क्षणेन क्षणदा क्षयम् ॥८६।। अथोत्थाय कुमारौऽसौ, कौतुकोत्तानमानसः । वनं विलोकयामास, हर्षसोत्कर्षलोचनः ।।८७।। वनं स मेने सच्छायवृक्षच्छन्नदिगन्तरम् । भयादिव दिवा भानोः, पिण्डीभूय स्थितं तमः ॥८८|| स्थूलस्थुलतुलैः शैलैस्तनिकाकारनिर्झरैः । स्कन्धावारः स्मरस्येव, जहारास्य वनं मनः ॥८९।। तद् वनं स्वर्वधूभुक्तकुञ्जपुञ्ज विलोकयन् । स मानसं सरोऽपश्यदात्ममानसनिर्मलम् ॥१०॥ कुमारः कनकाम्भोजैर्भूषितं वीक्ष्य तत् सरः । दिग्वधूदर्पणं मेने, सङ्क्रान्तवदनाम्बुजम् ॥९१।। अथास्य सरसो नीरे, समीरेरितवारिजे । उचितां शुचितां कृत्वा, बभ्राम विपिने पनः ॥९२।। अथाग्रतो गतो भूपनन्दनो वन्दनोचितम् । दर्शनीयं ददर्शोच्चैर्मठं कञ्चन काञ्चनम् ॥१३॥ उद्दामविस्मया-ऽऽनन्ददत्तहस्तावलम्बनः । कुमारोऽथ समारोहत् , तस्य प्रथमभूमिकाम् ॥९४।। विलोकयन्नयं तस्य, मठस्य रमणीयताम् । क्रमेणोपरि भूभागमाप निष्पापमानसः ॥९५।। अथ तत्र स्थितं किञ्चिद् , दिव्याकृतिधरं पुरः । योगपट्टपरीताङ्गमक्षसूत्रपवित्रितम् ॥९६।। पश्यन्तमन्तरात्मानं, विनिवारितमारुतम् । असौ योगीन्द्रमद्राक्षीत् , साक्षाद् योगमिवाङ्गिनम् ॥९७।। युग्मम् ॥ प्रणम्याग्रे निविष्टेऽस्मिन् , समाधिमवधूय सः ।
ऊचे मधुमुचं वाचं, वाचंयमचमूपतिः ॥९८।। १. "लस्थलच्छलैः खंता० ॥ २. रसस्तीरे, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof