________________
द्वितीयः सर्गः]
[१९
[अभयङ्करनृपचरितम्]
यथाऽपरविदेहेषु , विद्यते भूविभूषणम् । विजये पुष्कलावत्यां, नगरी पुण्डरीकिणी ॥७४।। तस्यां विश्राणितक्षोणिक्षेमः क्षेमकरो नृपः । तस्य चाऽमरसेनेति, बभूव प्राणवल्लभा ॥५॥ अर्धरात्रेऽन्यदा देवी, लग्ने सर्वग्रहेक्षिते । चतुर्दशमहास्वप्नसूचिताद्भुतवैभवम् ॥७६।। देवपूजा-दया-दान-दीनोद्धारदिदोहदैः । प्रकाशितगुणग्रामं, सुतरत्नमसूत सा ॥७७॥ युग्मम् ॥ पिता हर्षप्रकर्षेण, कृताद्भतमहोत्सवः । अभयङ्कर इत्यस्य, समये चाभिधां व्यधात् ॥७८।। वर्द्धमानः क्रमात् पर्वशर्वरीरमणोपमाम् । लेभे कुमारः कलयन् , सकलः सकलाः कलाः ॥७९॥ निद्राविरामे भूपालतनयोऽपश्यदन्यदा । आत्मानं काननस्यान्तः, पश्चिमप्रहरे निशः ॥८०।। न तत् पुरं न तद् गेहं, न स लोको न सा रसा । अदृष्टपर्वः सर्वोऽयं, प्रदेश: प्रतिभाति मे ।।८।। किमिन्द्रजालं? किं स्वप्नः ?, किं वाऽयं विभ्रमो मम ? । इत्यनल्पैर्विकल्पौटुस्तस्य दोलायितं मनः ॥८२॥ युग्मम् ।। अत्रान्तरे विनीतात्मा, दिव्यरूपधर: पुरः । गिरं शुचिस्मितां कश्चित् , कुमारं प्रत्यभाषत ॥८३॥ विस्मयं धीर ! मा कार्षीस्त्वं मयाऽपहृतोऽसि यत् । ज्ञाताऽसि तु स्वयं प्रातरपहारस्य कारणम् ।।८४।। इति श्रुत्वा कुमारोऽपि, यावद् वदति किञ्चन ।
भेजे तावददृश्यत्वं, स दिव्यपुरुषः क्षणात् ॥८५।। १. “नोद्धरणदो खंता० ॥ २. निशि खंता० ॥
15
25
D:\maha-k.pm5\2nd proof