________________
5
10
15
20
१८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मुनीनामन्न-पानादि, सर्वमेते यथोचितम् । सार्थवाह ! प्रयच्छन्ति, सार्थिकास्ते निरन्तरम् ॥६२॥ धनोऽप्यूचे गुणमयं मन्यन्ते गुणिनो जगत् । वसुधा हि सुधाभानोः, सुधाधौतेव भासते ॥६३॥ तत् कल्पनीयमाहारमिदानीं दित्सुरस्म्यहम् । मुनीन् प्रेषयताऽऽवासं, प्रति सद्यः प्रद्य मे ॥६४॥ वर्तमानेन योगेनेत्युक्ते भगवताऽथ सः । प्राप्तः स्वावासमासन्नबोधिः शोधितमानसः ॥६५॥ गुरोरथ समादेशाद्, गृहायातं मुनिद्वयम् । कल्प्यान्तरस्याभावेन, स स्वभावेन शुद्धधीः ॥६६॥ श्रद्धया ग्राहयामास, सर्पिरुत्सर्पिवासनः । सङ्ख्यातीतगुणं बोधिबीजं प्राप्येव निवृतः ॥६७॥ युग्मम् || धर्मलाभोऽस्त्विति स्पष्टमिष्टमाशीर्वचो मुनी । दत्त्वा धनाय नम्राय, जग्मतुर्गुरुसन्निधौ ॥६८॥ अथाह्लायापराह्णेऽपि, धनोऽपूर्णमनोरथः । गुरुपादान्तिकं प्राप, निन्दन्नात्मानमात्मना ॥६९॥ अथारेभे मुनीन्द्रेण, देशना क्लेशनाशनी । त्वं नात्मनिन्दया दुःखं, महात्मन् ! कर्तुमर्हसि ॥७०॥ स्वार्थीकृतपरार्थेन, चरितेनामुना भवान् । लोकोत्तरश्रियां नूनं, भविष्यति निकेतनम् ॥७१॥ महात्मनां ह्ययं पन्थाः, क्षुण्णः पुण्यात्मभिर्नृभिः । यत् परप्रीणनं नाम, प्राणैरपि धनैरपि ॥७२॥ अस्मिन्नर्थे कथं सार्थवाह ! विश्वैकपावन ! । अभयङ्करभूभर्तुर्न श्रुतं चरिताद्भुतम् ? ||७३||
१. सार्थाधीश ! प्रय' खंता० ॥ २. न्निधिम् खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof