________________
द्वितीयः सर्गः ]
अप्राशुकीकृतं धन्याः, पयोऽपि न पिबन्ति ये । कथं तेषां मुनीन्द्राणां प्राणयात्रा भविष्यति ? ॥४९॥ अहो ! मे मन्दभाग्यस्य, तथा निश्चेतनं मनः । यथा कथाऽपि साधूनां, नाकारि सहचारिणाम् ॥५०॥ अत्रान्तरे पपाठोच्चैर्बहिर्मङ्गलपाठकः । उदयानुगतं भानोः, प्रातःसुप्रातमङ्गलम् ॥५१॥ रुद्धोऽपि मेघैः सार्थेश !, भवानिव विभाविभुः । अमुञ्चन्नयमुत्साहमुपकारार्थमुद्ययौ ॥५२॥
[ १७
अथ प्राभातिकं कृत्यं, विधाय विधिवद् धनः । माणिभद्राभिधं मित्रं, पप्रच्छ जन्वत्सलः ॥५३॥ धर्मघोषः प्रभुः कुत्र, कथं वा मित्र ! वर्तते ? । यदहो ! सुबहोः कालादद्य मे स्मृतिमागतः ॥ ५४॥ तेनाथ कथिते तेषामाश्रमे समुपागतः । गुरूंश्च तत्पुरस्ताच्च, स हृष्टो दृष्टवान् मुनीन् ॥५५॥ कायोत्सर्गस्थितान् काँश्चिदितरान् ध्यानबन्धुरान् । स्वाध्यायधन्यानन्याँस्तु, प्रत्युपेक्षापरान् परान् ॥५६॥ स प्रणम्य क्रमादेतान्, धर्म्यकर्मसु कर्मठान् । गुरोः पुरस्तादासीनः, कृताञ्जलिरदोऽवदत् ॥५७॥ युग्मम् ॥ समायाताः स्थ सार्थेऽस्मिन् वचनैर्मम निर्ममाः ! | चक्रे मया न चिन्ताऽपि सन्तापि हृदयं ततः ॥५८॥ महामोहस्य माहात्म्यात्, तदिदं स्खलितं मम । सर्वं क्षन्तव्यमव्यग्रमतिभिर्मुनिपुङ्गवैः ॥५९॥ अथो गुरुरभाषिष्ट, कष्टमेतन्मुधैव ते ।
सार्थाधीश ! किमस्माकं, न हितं विहितं त्वया ? ॥६०॥ संसार इव दुर्लङ्घे, कान्तारेऽस्मिन् महामते ! । भवता दुष्टकर्मभ्यो, दस्युभ्यो रक्षिता वयम् ॥६१॥
१. 'मुचन्न' पाता० ।। २. 'च्च, सुहृ' खंता० ॥ ३. दुर्लङ्घये, का खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
151
20
25