________________
१६]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दुर्गाहैर्वाहिनीवाहै:, पथिभिः पङ्कसङ्कलैः । धारासारैरतिस्फारैः, क्रमोऽप्यजनि योजनम् ॥३७|| कष्टं दृष्ट्वाऽथ सार्थस्य, ततः सार्थपतिर्धनः । सौस्थ्येनावासितस्तस्थौ, तत्रोच्चैरटवीतटे ॥३८।। स्थिते सार्थपतौ तत्र, जनानां सार्थवासिनाम् । पाथेयानि त्रुटन्ति स्म, कियद्भिरपि वासरैः ॥३९॥ अथ सार्थस्तपस्वीव, प्रविष्टः कष्टसङ्कटे । कन्द-मूल-फलप्रायैर्वृत्तिं कर्तुं प्रचक्रमे ॥४०।। सार्थवाहस्तथा स्पष्टमाश्लिष्टश्चिन्तया तया । ईर्ण्ययेव यथा तस्मान्निद्रया विद्रुतं द्रुतम् ॥४१॥ यामिन्याः पश्चिमे यामे, शुश्रावाथ श्रुतिप्रियम् । असौ परस्परालापं, मन्दुरा-यामपालयोः ॥४२॥ तावत् परोपकारित्वमस्य लोकस्य दर्श्यते । यावद् दुःसमयच्छया, निकषो निकषा न हि ॥४३॥ यथा यथा पुनः कालः, करालोऽयं विजृम्भते । तथा तथाऽयं नः स्वामी, प्रतिपन्नेऽतिनिश्चलः ॥४४॥ परितः प्रसरन्त्येताः, पयोदचयवीचयः । प्रतिपन्नार्थशूरस्य, प्रभोरस्य च कीर्तयः ॥४५॥ संलापमेतयोः श्रुत्वा, सर्वं श्रुतवतांवरः । चित्ते सञ्चिन्तयामास, स चिद्रूपशिरोमणिः ॥४६॥ ध्रुवमाभ्यामुपालम्भं, लम्भितोऽस्मि स्तुतिच्छलात् । यदीशि मया कष्टसङ्कटे पातितो जनः ॥४७।। अथ सञ्चिन्तयन् सार्थे, सार्थेशः स सुखा-ऽसुखे । सस्मार धर्मघोषाख्यमुनेविमलमानसः ॥४८।।
15
20
१. र्थपतिस्तत्र, प्रवि' खंता० ॥ २. ङ्कटम् खंता० पाता० ॥ ३. र्थवीरस्य, खंता० ॥ ४. "तयोः सर्वं, श्रुत्वा श्रत खंता० पाता० ॥ ५. 'षस्य, मुने खंता० ॥
D:\maha-k.pm5\2nd proof