________________
[१५
द्वितीयः सर्गः]
अथ प्रतस्थे सार्थेन, समं स रथमास्थितः । उद्दण्डभाण्डसम्भारवाहिभिर्वाहनोमिभिः ॥२४॥ समं श्रीधर्मघोषोऽपि, मुनिभिः परिवारितः । व्रजन्नतितरां रेजे, विक्कैरिव महागजः ॥२५।। अश्वीयैरौक्षकैर्मानुष्यकैरथ्याभिरौष्ट्रकैः । धनश्चचाल वैपुल्यं, विपुलाया विलोपयन् ॥२६।। धने प्रचलिते कम्पं, भेजे विश्वम्भरा भरात् । विपरीतममुं सर्वाः, सरितः परितः पुनः ॥२७।। केकिपत्रातपत्रेषु , वहत्सु जलदश्रियम् । दधे तडिल्लतालक्ष्मी, स्फुरन्ती कुन्तसन्ततिः ॥२८॥ धनदृष्ट्या सुधावृष्ट्या, ग्रीष्मेऽपि ग्रस्ततापया । न सार्थः प्रार्थयामास, धारागृहमहोत्सवम् ॥२९।। स यावदटवीं काञ्चित् , कैश्चित् प्राप प्रयाणकैः । मार्ग एवाभवत् तावत् , कालो मुदिरमेदुरः ॥३०।। यथा यथा धरापीठे, धारा धाराधरोऽमुचत् । शरानुरसि पान्थानां, मन्मथोऽपि तथा तथा ॥३१।। वारिधाराभिराशङ्क्य, शङ्के पङ्केरुहक्षयम् । अन्तर्दधे किल द्रष्टुमक्षमः पद्मबान्धवः ॥३२॥ साचिव्यं स्मरसाम्राज्ये किमस्य मयि गर्जति ? । इतीवाभ्युन्नतिं प्राप्य, पयोदः पिदधे विधुम् ॥३३।। खेदविस्फारसूत्कारा, दुर्दिनश्यामलद्युतः । पान्थाश्चरन्तः पङ्कान्तर्भेजिरे गूढपादताम् ॥३४॥ पान्थानां गच्छतामग्रे, प्राणद्रव्योत्तमर्णकैः । नद्यो गतिनिषेधाज्ञारेखा इव कृता घनैः ॥३५॥ चापमारोप्य पान्थेषु , स्मराज्ञाभङ्गकारिषु । वीराः पयोमुचोऽमुञ्चन् , धारा नाराचदुर्दिनम् ॥३६।।
१. धाय, रेखा खंता० ॥
D:\maha-k.pm5\2nd proof