________________
5
10
15
20
25
१४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् §§ स वसन्तपुरं गन्तुं, व्यवहारार्थमन्यदा । यात्रार्थिनः समाह्वातुं, वादयामास डिण्डिमम् ॥११॥ यस्य यत् पूर्यते नैव, स तद् याचतु हे जनाः ! । इत्युद्घोषणया पूर्णव्योमा सोमाकृतिर्धनः ॥१२॥ अक्षतानू शिरसा बिभ्रन्, मङ्गलध्वनिपूर्वकम् । तस्थौ निविशितावासः, पुरीपरिसरावनौ ॥ १३॥ युग्मम् ॥ अत्रान्तरे समायातं, धर्मघोषमुनीश्वरम् । सत्कृत्य कृत्यविन्नम्रः, किं कार्यमति सोऽवदत् ॥१४॥ धर्म्यं वाचमथोवाच, वाचंयमशिरोमणिः ।
त्वया समं समेष्यामो वसन्तपुरपत्तनम् ॥१५॥ सार्थवास्तथेत्युक्त्वा, प्राह सूपकृतः प्रति । अन्नाद्यमीषां सम्पाद्यं, युष्माभिर्नित्यमित्यहो ! ॥१६॥ अत्रान्तरे च केनापि, स्थालं सार्थपतेः पुरः । रसालफलसम्भारसम्भृतं प्राभृतीकृतम् ॥१७॥ अथ सोत्कर्षहर्षाश्रुर्धन्यम्मन्यमना धनः । धर्मघोषमुनिं प्राह, सोत्साहकरकोरकः ॥१८॥ भगवन्ननुगृहीत, गृह्णीत फलसञ्चम् । धन्योऽस्मि कृतकृत्योऽस्मि, भवत्पादाब्जसेवया ॥१९॥ मूर्तिमानिव धर्मोऽथ, धर्मघोषमुनिर्धनम् ।
भाषते स्म महाभाग !, कल्पनीयमिदं न नः ॥२०॥ सिद्धमन्नं जलं प्रासु, फलं निर्बीजतां गतम् । भवेन्मुनीनां कल्प्यं यन्न कृतं न च कारितम् ॥२१॥ वचनं स मुनीशस्य, निशम्य शमितस्पृहम् । अवोचद् विस्मस्मेरनेत्रलीलोत्पलो धनः ||२२|| अहो ! कष्टमहो ! धैर्यमहो ! दुष्करकारिता । एते विदधते यत् तन्नान्ये श्रोतुमपीशते ॥ २३ ॥ १. निवसिता खंता० ॥ २. 'मानथ ध° वता० ॥
D:\maha-k.pm5 \ 2nd proof