________________
द्वितीयः सर्गः ॥
परोपकारः पुण्यर्द्धिवाद्धिसंवर्द्धने विधुः । लोकोत्तरस्फुरत्कीर्त्तिवल्लिपल्लवनेऽम्बुदः ॥१॥ भवन्ति हि महात्मानः, परोपकृतिकर्मठाः । अप्रधानीकृतस्वार्थः, सार्थवाहो यथा धनः ॥२॥
तद्यथा- अस्ति प्रत्यग्विदेहेषु, जन्मभूमिरिव श्रियः । क्षितिप्रतिष्ठितं नाम, पुरं क्ष्मामुकुटोपमम् ॥३॥ सुरालयचयोत्तुङ्गशृङ्गरङ्गध्वजव्रजैः । दत्तपत्रमिवाभाति, यदमर्त्यपुरं प्रति ॥४॥ आसीदासीमभूमीशदासीकरणकौतुकी । प्रसन्नचन्द्रः क्ष्माचन्द्रस्तत्र क्षत्रशिरोमणिः ॥५॥ कालः करालो यस्यासीन्निस्त्रिंशः संहरन्नरीन् । एतस्माद् दुःसहो जज्ञे, प्रतापतपनः पुनः ||६|| पुरे तत्राभवल्लक्ष्मीनिवासभवनं धनः । सार्थवाहो यशोभिश्च, वणिग्भिश्च विगाढदिक् ||७|| चलाचलाऽपि नो लक्ष्मीर्यत्कराम्भोजमत्यजत् । वातार्हता पताकेव, देवायतनकेतनम् ॥८॥ दृष्टे नृणामपूर्वार्थसुन्दरे यस्य मन्दिरे । बभूव शङ्के शङ्केति, किमिदं जगदन्तरम् ? ॥९॥ क्षीराब्धेरिव ये तस्य, दधिरे दानपात्रताम् । वारिदा इव ते जग्मुर्जगतोऽप्युपजीव्यताम् ॥१०॥
१. हतपता' खंता ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20