________________
१२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सार्मिक-सुहृद्वन्धु-पौरधौरेयकांस्ततः । भोजनादिभिरानन्द्य, कुर्यात् सङ्घस्य पूजनम् ॥१०२॥ विशेषकम् ॥ इदमेव महादानं, भावयज्ञोऽयमेव च । इदमेव श्रियो मूलं, यदेतत् सङ्घपूजनम् ॥१०३॥ इति सिद्धान्तसिद्धोऽयं, तीर्थयात्राविधौ विधिः ।
स्थानैश्चतुर्भिराराद्धैः, सम्यगाराधितो भवेत् ॥१०४॥ तद्यथा- परोपकारकरणं, ब्रह्मव्रतनिषेवणम् ।
यथाशक्ति तपः सम्पद्दीना-ऽनाथानुकम्पनम् ॥१०५॥ स्थानान्येतानि चत्वारि, सङ्घाधिपतिना ततः । आराध्यानीच्छता पुण्यश्रियं पुण्यानुबन्धिनीम् ॥१०६॥ यश्चेतसा शुचितरेण चतुःप्रकारमाराधयत्यभिमतामिति तीर्थयात्राम् । प्रीता स्वयंवरविधिं विदधाति तस्मिन्, सौभाग्यभाग्यवति सङ्घपतित्वलक्ष्मीः ॥१०७॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीउदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यङ्के महाकाव्ये
तीर्थयात्राविधिवर्णनो नाम प्रथमः सर्गः ॥छ॥ वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, रोहन्मोहतया तया हृतपरिस्पन्दोऽतिमन्दोद्यमः । श्रीमन्त्रीश्वर वस्तुपाल ! भवतो हस्तावलम्बं चिराद् , धर्मः प्राप्य महीं विहर्तुमधुना धत्ते पुनः पाटवम् ॥१॥ छ ।
॥ ग्रं० १२१ ॥ छ ॥ छ ।
१. श्लोकोऽयं खंता० पुस्तके नास्ति ॥ २. °द्दीनानामनुक° पाता० ॥ ३. ग्रन्थाग्रं ११६ पाता० ॥
D:\maha-k.pm5\2nd proof