________________
प्रथमः सर्गः]
[११ सङ्ख गान्धर्ववर्गं च, चर्चयित्वा यथोचितम् । पुष्प-कुङ्कम-कर्पूर-चन्दनप्रमुखैस्ततः ॥८९॥ अत्यद्भुताभिर्देवेन्द्रविमानादिविभूतिभिः । प्रक्लृप्ततीर्थकृज्जन्ममज्जनोत्सववैभवः ॥१०॥ जगत्त्रयपतेः स्नात्रं, कुर्वीत प्रीतमानसः । जगतीजिनबिम्बानां, वैयावृत्यकृतामपि ॥९१॥ त्रयोदशभिः कुलकम् ॥ दुग्धाद्यैरमृतैः किञ्च, कर्पूराद्यैश्च पञ्चभिः । ततः पञ्चामृतस्नात्रं, पात्रं कल्याणसम्पदः ॥९२॥ चन्दनस्यन्द-कस्तूरी-कर्पूराद्यैविलेपनैः । स्वर्णाभरण-पुष्पस्रग्-वसनादिभिरर्चनम् ॥१३॥ घनसारा-ऽगुरुप्रायसुगन्धद्रव्यधूपनम् । प्रेक्षां दक्षजनप्रेक्ष्यामद्भुतं च महाध्वजम् ॥१४॥ चलच्चामर-भृङ्गारनीरधारामनोहरम् । कर्पूरारात्रिकं पुष्पवृष्टिसम्बन्धबन्धुरम् ॥१५॥ देवानां वन्दनं चाथ, कृत्वा कुर्याद् यथोचितम् । देवसेवकसत्कारमनिवारं च भोजनम् ॥९६॥ पञ्चभिः कुलकम् ॥ मुखोद्घाटविधाने च, मालोद्धट्टनपर्वणि । किञ्चाक्षयनिधिक्षेपे, भूमिभाण्डादिनिष्क्रये ॥१७॥ कोशं संवर्ध्य देवस्य, दीनादिननुकम्प्य च । आपृच्छेतार्चनापूर्वं, प्रभुं गद्गदया गिरा ॥९८॥ युग्मम् ॥ विश्वसङ्कल्पकल्पद्रो ! त्वदेकमयमानसे । पुनदर्शनदानेन, प्रसीद सदयं मयि ॥९९॥ ततः प्रभुं नमस्कृत्य, सत्कृत्य सहयात्रिकान् । तीर्थानुध्यानधन्यात्मा, निवृत्तः स्वपुरं गतः ॥१००॥ पुण्यस्फूर्ते मुहूर्तेऽसौ, समुत्सर्पन्महोत्सवम् ।
25 रथप्रवेशमाधाय, प्रतिमामानयेद् गृहम् ॥१०१॥
१. गन्धिद्र खंता० पाता० ॥ २. °द्धाटन खंता० ॥
D:\maha-k.pm5\2nd proof