________________
१०]
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् क्षुद्रोपद्रवविद्राविमन्त्रध्यानामलात्मभिः । क्लृप्तान्तःकवचास्त्रैश्च, गुरुभिः कृतसन्निधिः ॥६॥ स्फूर्जज्जयजयध्वान-धवलध्वनिबन्धुरैः । अवार्येस्तूर्यनिर्घोषैर्नादिताम्बरगह्वरः ॥७७॥ उद्दामदान-सम्मानपूरितार्थिमनोरथः । रम्ये परिसरे पुर्याः, कुर्यात् प्रस्थानमङ्गलम् ॥७८॥ विशेषकम् ॥ ततः साधर्मिकान् सर्वान् , नानास्थानागतानसौ । सत्कृत्य सहितस्तैश्च, कुर्वन्नुर्वी प्रमोदिनीम् ॥७९॥ धनैर्धनार्थिनः कामं, वाहनैर्वाहनार्थिनः । सहायैरसहायाँश्च, प्रीणयन् सहयात्रिकान् ॥८०॥ बन्दि-गाथकमुख्यांश्च, नामग्राहा महात्मनाम् । अशनैर्वसनैरथैर्यथाशक्ति कृतार्थयन् ॥८१॥ चैत्यानि पूजयन् मार्गे, भग्नानि च समुद्धरन् । तत्कर्मकृत्सु वात्सल्यं, कुर्वंस्तत्कार्यचिन्तनम् ॥८२॥ सत्कुर्वन् धार्मिकान् निःस्वान् , दानाद् दीनान् प्रमोदयन् । भीतानामभयं यच्छन् , मोचयन् बन्धनस्थितान् ॥८३॥ पङ्कमग्नं च भग्नं च, सङ्कटे शकटादिकम् । नियुक्तैरुद्धरंस्तत्तत्कर्मशिल्पकरैनरैः ॥८४॥ क्षुधितं तृषितं व्याधिबाधितं श्रमनिस्सहम् । तन्वानः सुस्थमान्ना-ऽम्बु-भिषग्-भैषज्य-वाहनैः ॥८५॥ क्षुन्दानश्चाखिलान् क्षुद्रोपद्रवान् धार्मिके जने । विदधानश्च जैनेन्द्रशासनस्य प्रभावनाम् ॥८६॥ ब्रह्मचर्य-तपस्तेजोजनितान्तस्तमःशमः । दधद्देव-गुरूपास्तिभावनापावनं मनः ॥८७॥ क्रमेण प्राप्य तीर्थानि, सार्मिकसमाधिना । भृत्वा तीर्थाम्भसा कुम्भान् , पुष्प-वासाधिवासितान् ॥८८॥
25
१. द्रावम° खंता० ।। २. शकटं स्थितम् खंता० ॥
D:\maha-k.pm5\2nd proof