________________
प्रथमः सर्गः ]
मर्त्यजन्म-कुलैश्वर्यसामग्रीं प्राप्य दुर्लभाम् । कृतार्थीकर्तुमिच्छामि, भगवँस्तीर्थयात्रया ॥६३॥ धन्यस्त्वं तीर्थकृत्पूज्यो, यस्य सङ्घपतिस्तव । सेनाधिपत्यवत् सङ्घाधिपत्यं वितरिष्यति ॥६४॥ सङ्घाधिपत्यमत्यन्तदुर्लभं भविनां भवे । तीर्थाधिपत्यवद् भद्र !, जगद्भद्रङ्करोदयम् ॥६५॥ अर्जितोदात्तपुण्यस्य, भाविकल्याणसम्पदः । कस्यापि तीर्थयात्रार्थमियमुत्सहते मतिः ॥ ६६ ॥ एवं संवर्धितोत्साहो, गुरुणा प्रीतचेतसा । यात्रायै कृतसत्कारः, कारयेद् दिननिर्णयम् ॥६७॥ कलापकम् ॥ साधर्मिकाणां सर्वत्र, बहुमानपुरःसरम् ।
यात्रार्थं कृतहृल्लेखान्, लेखान् सम्प्रेष्ययेत् ततः ॥६८॥ कृतोरुवाहना-ऽऽवास-कोश-पादातसङ्ग्रहः । युग-योक्त्रादिगन्त्र्यङ्ग-शिल्पिवर्गपरिग्रहः ॥ ६९॥ जलोपकरण-च्छत्र- दीपिकाधारिभिर्वृतः । सूपकृद्धान्य- भैषज्य - भिषक्प्रभृतिसम्भृतः ॥७०॥ चन्दना - ऽगरु- कर्पूर-काश्मीर - वसनादिभिः । वस्तुभिर्मुदितश्चैत्य-तीर्थ-सङ्घार्चनोचितैः ॥७१॥ मुहूर्ते पूर्वनिर्णीते, स्नपयित्वा जगद्गुरुम् । रचयित्वाऽद्भुतां पूजां निषण्णस्तत्पुरस्ततः ॥७२॥ सङ्घाधिपत्यदीक्षायां, दत्तायां गुरुभिर्मुदा । दिक्पालेभ्यस्ततो दत्त्वा, स्फूर्जन्मन्त्रबलं बलिम् ॥७३॥
"
पूजिते पुष्प - वासाद्यैर्मन्त्रमुद्राञ्च रथे ।
स्वयमारोपयेद् देवं, महेनातिमहीयसा ॥७४॥ षड्भिः कुलकम् ॥
पुरस्कृतगुरुः कृत्वा, ससङ्घश्चैत्यवन्दनम् । कायोत्सर्गैः कपर्द्यम्बाप्रभृतीन् सन्निधापयेत् ॥७५॥
D:\maha-k.pm 5 \ 2nd proof
[९
5
10
15
20
25