________________
5
10
15
20
25
८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
प्रभावनाभिधः सोऽपि नृपव्यापारतेजसा । दुरितध्वान्तविध्वंसाद् भास्वरां श्रयति श्रियम् ॥५०॥ विशेषकम् ॥ क्रमन्ते यत्र नान्यानि, प्रायश्चित्तानि कल्मषे । तत्राप्यनन्यसामान्यमयमेवाघमर्षणम् ॥५१॥ भावना शिवदा स्वस्य, स्वा ऽन्ययोस्तु प्रभावना । प्रकारात् तदितः श्रेष्ठा, भावनातः प्रभावना ॥ ५२ ॥ ख्याताश्च यद्यपि स्पष्टमष्टावेव प्रभावकाः । तथाऽप्युपनिषत्प्रोक्ताः परेऽप्यद्भुतवैभवाः ॥५३॥ तथाह्यतिशयस्फूर्तिगणभूपतिसम्मताः । प्रभावयन्ति तीर्थेशतीर्थमव्यर्थशक्तयः ॥५४॥ अङ्गं प्रशस्यमस्याश्च, निर्णीतं परमर्षिभिः । श्रद्धाविशुद्धं विधिवज्जैनयात्राप्रवर्तनम् ॥५५॥ एतां च त्रिविधामाहुरेकामष्टाह्निकाभिधाम् । द्वितीयां रथयात्रां च, तीर्थयात्रामथापराम् ॥५६॥ वितन्वन्ति सतामेतास्तिस्त्रोऽपि श्रायसीं श्रियम् । तथापि तीर्थयात्रेयममेयसुकृतास्पदम् ॥५७॥ दान - शील- तपो-भाव-प्रभावनसमुद्भवः । पुण्यराशिरशेषोऽपि यदत्र प्रथते पृथुः ॥५८॥ [ससङ्कं तीर्थयात्राया विधि: ]
तीर्थयात्रां चिकीर्षोश्च यत् कर्तव्यं महात्मनः । यथागमं विधिस्तस्य, क्रमादयमुदीर्यते ॥५९॥ विवेकी पुरुषस्तत्र, जाति-कर्माद्यदूषितः । नृपावष्टम्भसंरम्भी, नीतिस्फीतधनागमः ॥६०॥ वदान्यो जनतामान्यः, पूज्यपूजापरायणः । जन्म - जीवित-वित्तानां, जिघृक्षुः फलमद्भुतम् ॥६१॥ तिथौ पुण्यातिथौ गत्वा, गुरुक्रमयुगान्तिके । श्रद्धाशुद्धाशयः पुण्यप्रज्ञो विज्ञपयेदिदम् ॥६२॥
१. 'व्यक्तश° खंता० ॥
D:\maha-k.pm5\ 2nd proof