________________
पञ्चदशः सर्गः ॥
अयं क्षुब्धक्षीरार्णवनवसुधासन्निभविभानुभाकाकर्ष्यानुपदमुपदेशानिति गुरोः । समस्तं ध्वस्तैना जनितजियात्रापरिकरोऽकरोत् सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् ॥१॥ श्लाघ्येऽह्नि सङ्घसहितः स हितः प्रजानां, श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्चचाल, वाचालवारिदपथो रथचक्रनादैः ॥२॥ सान्द्रैरुपर्युपरिवाहपदाग्रजाग्रद्धूलीपटैर्झटिति कुट्टिमतामटद्भिः ।
मार्गे निरुद्धखरदीधितिधामसङ्के, सङ्गस्तदा भवनगर्भ इवावभासे ॥३॥ 10 नाभेयप्रभुभक्तिभासुरमनाः कीर्तिप्रभाशुभ्रिता
काशः काशह्रदाभिधेऽथ विदधे तीर्थे निवासानसौ । चक्रे चारुमना जिनार्चनविधिं तद ब्रह्मचर्यव्रतारम्भस्तम्भितविष्टपत्रयजयश्रीधामकामस्मयः ॥४॥
पषभक्तिभरतण्या रयादम्बया हततमःकदम्बया । 15 एत्य दृक्पथमथ प्रतिश्रुतं, सन्निधिं समधिगम्य सोऽचलत् ॥५॥
ग्रामे ग्रामे पुरि पुरि पुरोवर्तिभिरमर्त्यमुख्यैः, क्लुप्तप्रावेशिकविधितता व्योम्नि पश्यन् पताकाः । मूर्ताः कीर्तीरयममनुत प्रौढनृत्तप्रपञ्च
भ्राम्यल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः ॥६॥ 20 अध्यावास्य नमस्यकीर्तिविभवः श्रीसङ्घमंहस्तमः
स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः । श्रीनाभेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानसस्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः ॥७॥