________________
[३९९
पञ्चदशः सर्गः] तत्र स्नात्रमहोत्सवव्यसनिनं मार्तण्डचण्डद्युतिक्लान्तं सङ्घजनं निरीक्ष्य निखिलं सार्दीभवन्मानसः । सद्यो माद्यदमन्दमेदुरतरश्रद्धानिधिः शुद्धधीमन्त्रीन्द्रः स्वयमिन्द्रमण्डपमयं प्रारम्भयामासिवान् ॥८॥ मन्त्री मौलौ किल जिनपतेश्चित्रचारित्रपात्रं, स्नात्रं कृत्वा कलशलुलितैः स्मेरकाश्मीरनीरैः । चक्रे चञ्चन्मृगमदमयालेपन-स्वर्णभूषा, वण्र्यैः पूजाकुसुम-वसनैस्तं स कल्पद्रुकल्पम् ॥९॥ मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरा-गुरुप्लोषत्प्रेङ्खितधूपधूमपटली सा काऽपि तेने मुदा । या तद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनीमिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते ॥१०॥ इत्थं तत्र विधाय निर्मलमनाः सम्मान-दानक्रियासानन्दप्रमदाकुलां कुलनभोमाणिक्यमष्टाहिकाम् । विनोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः, श्रद्धावर्धितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् ॥११॥ अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् । अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्तिकदम्बमम्बाम् ॥१२॥ देवपत्तनपुरे पुरन्दरस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः, कामनिर्मथननिर्मलद्युतिम् ॥१३॥ पीतस्फीतरुचिश्चिराय नयनर्वामध्रुवां वामनस्थल्यामेष मनोविनोदजननं कत्वा प्रवेशं परि । धीमान् निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन् , दैवं रैवतकाधिरोहमकरोत् सङ्ग्रेन सङ्केश्वरः ॥१४॥ विशेषकम् ॥ गजेन्द्रपदकुण्डस्य, तत्र पीयूषहारिभिः । चकार मज्जनं मन्त्री, वारिभिः पापवारिभिः ॥१५॥ जिनमज्जनसज्जसज्जनं, कलशन्यस्ततदम्बुकुङ्कमम् । अथ सङ्घमवेक्ष्य सङ्कटे, विदधे वासवमण्डपोद्यमम् ॥१६॥
१. °लुठितैः खंता० ॥
D:\maha-k.pm5\2nd proof