________________
चतुर्दशः सर्गः]
[३९७ कौमारे त्रिशती जज्ञे, छद्म-केवलयोः पुनः । शतानि सप्त वर्षाणां, सहस्रायुरिति प्रभुः ॥३२९॥ निर्वाणपर्वणि सुपर्वपतिविधाय, कृत्यानि तत्र सफलीकृतनाकिलक्ष्मीः । नन्दीश्वरे प्रशमिताखिललोककष्टमष्टाहिकोत्सवमतुच्छमतिस्ततान ॥३३०|| तस्यां निर्वाणभूमौ मणिमयमतुलं मन्दिरं नेमिभर्तुश्चक्रे शक्रेण शृङ्गप्रकरकवलितव्योमदेशावकाशम् । तत् पूर्वं रैवताद्रिः प्रथितमिह महातीर्थमेतत् पृथिव्यां, देवी यत्राऽम्बिकाऽसौ किसलयति सतां सन्ततं क्षेमलक्ष्मीम् ॥३३१॥ ॥ इत्याचार्यश्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्गपतिचरिते लक्ष्म्यते महाकाव्ये
श्रीनेमिनिर्वाणवर्णनो नाम चतुर्दशः सर्गः समाप्तः ॥ यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा, क्षिप्तं सङ्घप्रतापानलमहसि मुदा यत् त्वया लीलयैव । अद्याप्युद्दामपूरप्रससुरभिताशेषदिक्चक्रवालस्तेन श्रीवस्तुपाल ! स्फुरति परिमलः कोऽपि सौभाग्यभूमिः ॥१॥ 15 क्लृप्तस्त्वं ननु दीनमण्डलपतिर्दारिद्र्य ! तत् किं पुनः, खिन्नः साम्प्रतमीक्ष्यसे गतमहा घातः ! समाकर्ण्यताम् । त्वद्दत्तामपि पत्तलां मम हठाद् दुःखालिभालाक्षरश्रेणिं सम्प्रति लुम्पति प्रतिमुहुः श्रीवस्तुपालः क्षितौ ॥२॥
॥ ग्रन्थाग्रम् ३४० । उभयम् ४९१९॥
20
१. इति श्रीवि खंता० ।। २. मिस्वामिनिर्वा खंता० ॥ ३. अयं श्लोकः वता० प्रतौ नास्ति ॥ ४. ग्रन्थाग्रम् - ३४५ । उभयम् - ४९२४ । वता० ॥
D:\maha-k.pm5\2nd proof