________________
३९६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ सिंहादयोऽप्यस्मिन् , बलदेशनया वने । निवृत्तपिशिताहाराः, श्रावकत्वं प्रपेदिरे ॥३१६।। प्राक्सम्बन्धी मुनेरस्य, कोऽपि जातिस्मरो मृगः । वनेऽशंसज्जनं सान्नमागतं मौलिसञ्जया ॥३१७।। रथकारोऽन्यदा कोऽपि, दारुभ्यस्तद् वनं गतः । तत्रानयन्मृगो राम, भिक्षाहेतोः पुरःसरः ॥३१८।। तदा भोक्तुं निविष्टोऽसौ, रथकृद् वीक्ष्य सीरिणम् । धन्योऽहं यदिहायातः, साधुरित्युत्थितो मुदा ॥३१९।। सर्वाङ्गस्पृष्टभूनत्वा, स मुनि प्रत्यलाभयत् । भाग्यभागी भवत्वेष, भिक्षामित्यग्रहीन्मुनिः ॥३२०।। स मृगोऽपि तदाऽध्यायद् , धिग् मे तिर्यक्त्वमागतम् । न शक्तोऽस्मि तपः कर्तुं , दानं दातुं च न क्षमः ॥३२१।। इति त्रयोऽपि सद्ध्याना, रथकारैण-सीरिणः । वातोरितद्रुघातेन, ब्रह्मलोके ययुः समम् ॥३२२॥ इतश्च पाण्डवा मत्वा, जरापुत्रात् कथामिमाम् । आक्रन्दमुखराश्चक्रुः, मुरारेरौर्ध्वदेहिकम् ॥३२३।। जरासूनुमथ न्यस्य, राज्ये मार्तण्डतेजसम् ।
ते नेमिप्रेषिताद्धर्मघोषाचार्याद् व्रतं दधुः ॥३२४॥ FF आर्या-ऽनार्येषु देशेषु , लोकं नेमिरबोधयत् । निर्वाणसमये चायं, ययौ रैवतकाचलम् ॥३२५।। कृते समवसरणे, देवैः कृत्वाऽन्तदेशनाम् । तत्र प्राबोधयन्नेमिस्वामी लोकाननेकशः ॥३२६।। सहितः पञ्चभिः साधुशतैः षट्त्रिंशताऽधिकैः । मासिकानशनी स्वामी, पादपोपगमं व्यधात् ॥३२७।। अथ त्वाष्ट्रे शुचिश्वेताष्टम्यां सद्ध्यानमाश्रितः । सार्द्ध तैः साधुभिः सायं, विभुनिर्वाणमासदत् ॥३२८।।
D:\maha-k.pm5\2nd proof