________________
[३९५
10
चतुर्दशः सर्गः]
स जगाद यदा स्कन्धे, जीविष्यति शबस्तव । करिष्यति तदा सद्यो, गौरियं कवलग्रहम् ॥३०३।। किं मृतो मेऽनुजः सीरी?, ध्यायन्निति तदुक्तिभिः । दिव्यरूपं पुरोऽपश्यत् , तं सिद्धार्थं स्वबान्धवम् ॥३०४।। स जगाद व्रताकाङ्क्षी, त्वयाऽहं प्रार्थितोऽभवम् । तेनाऽऽयातोऽस्मि मूढं त्वामद्य बोधयितुं बलात् ॥३०५।। रथादि मत्कृतं सर्वं, मोहं मुञ्च मृतो हरिः । इदं वदन् जरासूनुकथामपि जगाद सः ॥३०६।। अथाऽऽह सीरभृद् बन्धो !, साधु साध्वस्मि बोधितः । किं करोम्यधुनाऽहं तु , स्वबान्धववियोजितः ? ॥३०७॥ अथाभाषिष्ट सिद्धार्थो, जिनदीक्षां विनाऽधुना । बन्धो ! न युज्यते किञ्चित् , तव कर्तुं विवेकिनः ॥३०८।। मत्वेति तद्वचस्तेन, देवेन सह सीरभृत् । चकार हरिसंस्कारं, सिन्धुसम्भेदसीमनि ॥३०९॥ चारणर्षेरथो नेमिनियुक्तात् प्राव्रजद् बलः । तुङ्गिकाशिखरस्थायी, सिद्धार्थोऽभूच्च रक्षकः ॥३१०॥ अन्यदा तं पुरे क्वापि, पश्यन्ती काऽपि कूपगा । कुम्भस्थाने स्वपुत्रस्य, ग्रीवायां रज्जुमक्षिपत् ॥३११।। आलोक्येदं बलो निन्दन . निजरूपातिशायिताम । तदादि नगर-ग्रामगत्यभिग्रहमग्रहीत् ॥३१२॥ सदा मासोपवासी स, वन एव स्थितः कृती । तृण-काष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ॥३१३।। अस्मद्राज्येच्छया धीरः, कोऽप्ययं तप्यते तपः । ध्यात्वेति भूरयो भूपास्तं हन्तुं तद् वनं ययुः ॥३१४॥ सिद्धार्थः सन्निधानेऽथ, तस्य सिंहान् विचक्रिवान् ।
भीतास्ततो बलं नत्वा, ययुर्निजपुरं नृपाः ॥३१५।। १. मुग्धं त्वा सं० ॥ २. °सङ्गमसीम खंता० सं० ।।
20
25
D:\maha-k.pm5\2nd proof