________________
३९४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वीक्ष्य रक्तं चिराच्चीरं, मृतं मत्वाऽथ बान्धवम् । सोऽपतन्मूच्छितो लब्धसञः सद्यो रुरोद च ॥२९१।। विष्णोर्मुखाग्रमागत्य, जगाद च शुचाऽदितः । भ्रातर्न किं वदस्यद्य ?, कोऽपराधः कृतो मया ? ॥२९२।। लग्नः कालो ममाद्येति, क्रुद्धश्चेत् तत् त्यज क्रुधम् । पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥२९३॥ रामस्तमित्यजल्पन्तं, बन्धुं वात्सल्यमोहितः ।
स्कन्धेऽधिरोप्य बभ्राम, पूजयामास चान्वहम् ॥२९४।। SS षण्मासान्ते कदाऽप्येष, कञ्चित् पप्रच्छ पूरुषम् ।
मेलयन्तं रथं शैलोत्तीर्णं भग्नं पुनः समे ॥२९५॥ उत्तीर्य विषमाद् भग्नः, समे योऽथं रथः पथि । कथं सहस्रखण्डोऽयं, मूढ ! मेलकमेष्यति ? ॥२९६।। सोऽप्याह जित्वा युद्धानि, सुखसुप्तोऽप्ययं मृतः । चेत् ते जीविष्यति भ्राता, मिलिष्यति रथोऽपि तत् ॥२९७।। रामोऽन्यतः कमप्याह, वपन्तं ग्राव्णि पद्मिनीः । लगिष्यन्ति महामूढ !, कथमत्राप्यमूरिति ॥२९८।। सोऽप्युवाच यदि भ्राता, जीविष्यति मृतस्तव । तदेताः कमलिन्योऽपि, गमिष्यन्त्यत्र वैभवम् ॥२९९।। अन्यतोऽपि हली प्राह, नरं प्लुष्टद्रुसेचिनम् । रोक्ष्यत्येष कथं नाम, दग्धकीलोपमो द्रुमः ? ॥३००। सहासमाह सोऽप्येनमहो ! महदिहाद्भुतम् । शबं स्कन्धे वहन् प्लुष्टद्रुसेके यद्वदस्यदः ॥३०१॥ गोशबास्ये तृणं कश्चित् , क्षिपन् रामेण भाषितः ।
रचयन्ति मृताः क्वापि, गाव: कवलनक्रियाम् ? ॥३०२।।
१. °लीलेखो° खंता० सं० ॥२. ततस्त° खंता० ॥ ३. बन्धुवा खंता० ॥ ४. °मस्मिन्नमू खंता० सं० ॥ ५. °ण वारितः । खंता० ॥
D:\maha-k.pm5\2nd proof