________________
[३९३
चतुर्दशः सर्गः]
अथ भुक्त्वा तदुद्याने, तौ कौशाम्बवनं गतौ । तत्रास्तृिष्णया कृष्णस्तस्तौ रामोऽम्भसे गतः ॥२७८।। ६६ अथ पीताम्बरच्छन्नतनोः सुप्तस्य कानने ।
लग्नो जानूपरिन्यस्ते, कृष्णस्याङ्घ्रितले शरः ॥२७९॥ तदुत्थाय हरिः कोऽयमित्यवादीदमर्षणः । उपलक्ष्य गिराऽऽगत् , जरापुत्रो मुमूर्च्छ च ॥२८०।। लब्धसञो रुदन्नाह, धिग् मे जन्मेदमीदृशम् । धिग् मां यन्न तदा दीर्णः, श्रुत्वा तत् तीर्थकृद्वचः ॥२८१।। ममारण्यगतस्यापि, यदभूः शरगोचरः । तन्मन्ये कृष्ण ! पूर्दग्धा, न स्यादर्हद्वचोऽन्यथा ॥२८२॥ अथ तं हरिरित्याह, विषादेन कृतं कृतिन् ! । त्वं जीव यादवेष्वेको, व्रज वेगेन पाण्डवान् ।।२८३।। भाविनस्ते सहायास्ते, चिरं क्षाम्याश्च मगिरा । गच्छ यावद् बलो नैति, त्वां हनिष्यति स क्रुधा ॥२८४।। इत्युक्त्वा प्रेषितः सैष, गोविन्देन जरासुतः । उन्मूल्यास्मै ददौ चायमभिज्ञानाय कौस्तुभम् ॥२८५।। कृष्णा र्बाणमुद्धृत्य, प्रयातोऽथ जरासुतः । रामान्वेषभयात् किञ्चिद्, विपरीतैः पदैश्चलन् ॥२८६।। उत्तराभिमुखीभूय, कृष्णोऽपि प्राञ्जलिस्तदा । पञ्चभ्यः परमेष्ठिभ्यो, नमश्चक्रे यथाविधि ॥२८७।। प्रशशंस कुटुम्बं स्वं, पुरा प्रवजितं तदा । हृदा निनिन्द चात्मानमीदृशव्यसनातुरम् ॥२८८॥ प्रहारपीडयाऽथाऽयं, निर्विवेकीभवन्मनाः । ध्यातद्वैपायनद्वेषस्तृतीयां पृथिवीं ययौ ॥२८९॥ कृत्वाऽम्भः पद्मपत्रेऽथ, बलः कृष्णाग्रमागतः । असौ सुखेन विश्रान्तः, सुप्तोऽस्तीति क्षणं स्थितः ॥२९०।।
25
D:\maha-k.pm5\2nd proof