________________
३९२]
__ [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् न हया न वृषा नेभास्तं क्रष्टुं रथमीशते । स्तम्भितास्तेन दैत्येन, स्थिता लेप्यमया इव ॥२६६।। कृष्ण-रामौ स्वसामर्थ्यात् , तं रथं द्वारि निन्यतुः । पू:प्रतोलीकपाटे ते, पिदधावसुरः क्रुधा ॥२६७।। अपाटयत् कपाटौ तौ, रामः पादप्रहारतः । रथस्तु नाचलत् कृष्यमाणोऽपि गिरिशृङ्गवत् ॥२६८।। अथ तौ पितरः प्राहुर्वत्सौ ! द्राग् गच्छतं युवाम् । निदानं स मुनिः कुर्वन् , युवामेव मुमोच यत् ॥२६९।। शरणं नः पुनर्नेमिरधुनाऽप्यस्तु दुधियाम् । कस्यापि न वयं कोऽपि, नास्माकमिति निश्चयः ॥२७०।। इति ध्यानवतां मूनि, तेषामग्नि ववर्ष सः । मृत्वाऽथ दिवि जग्मुस्ते, राम-कृष्णौ निरीयतुः ॥२७१।। दह्यमानां पुरी पाल्यां, द्रष्टुमप्यक्षमौ शुचा । आलोच्याऽऽलोच्य तौ पाण्डुपत्तनं प्रति चेलतुः ॥२७२।। पुरेऽथ प्रज्वलत्यस्मिन् , रामसूः कुब्जवारकः । शिष्योऽस्मि नेमिनाथस्य, भावतोऽहं धृतव्रतः ॥२७३।। ब्रुवन्निति समुत्पाट्य, नीतोऽसौ, जृम्भकामरैः । प्राव्राजीत् पल्हवे देशे, श्रीमन्नेमिपदान्तिके ॥२७४।। युग्मम् ।। इतोऽपि क्षुधितं कृष्णं, मुक्त्वा हस्तिपुराद् बहिः । गत्वा बलो गृहीत्वा च, शम्बलं वलितः स्वयम् ॥२७५।। तन्नृपेणऽच्छदन्तेन, धार्तराष्ट्रेण सीरभृत् । पिधाय नगरद्वारं, चौरोऽयमिति रोधितः ॥२७६।। क्ष्वेडाहूतेन कृष्णेन, बलादर्गलबाहुना ।
हेलाहतकपाटेन, युक्तः सीरी द्विषोऽजयत् ॥२७७|| १. स्तं रथं क्रष्टमुमी खंता० ॥ २. °ण्डुमथुरां प्रति खंता० सं० ॥ ३. 'त्वाऽथ, श° खंता० । त्वाऽध्वश° सं० ॥
15
D:\maha-k.pm5\2nd proof