________________
[३९१
चतुर्दशः सर्गः]
पूर्ववैरस्मृतेरेत्य, द्वारकां दग्धुमुद्धरः । नालम्भूष्णुरसो पौरतप:प्रतिहतः परम् ।।२५४।। वर्षाण्येकादशालब्धच्छिद्रोऽस्थादेष रोषणः । द्वादशेऽब्दे प्रवृत्ते च, लोकश्चित्तमिति व्यधात् ॥२५५॥ भ्रष्टस्तपोभिरस्माकं, सोऽपि द्वैपायनो ध्रुवम् । रमामहे ततः स्वैरं, प्रवर्तितमहोत्सवाः ॥२५६।। इति मांसादनं मद्यपानं च यदवो व्यधुः । छिद्रान्वेषी स च च्छिद्रं, लेभे द्वैपायनासुरः ॥२५७।। उल्का-निर्घात-भूकम्पा-ऽऽलेख्य-प्रहसितादयः । उत्पाता विविधाः प्रादुरासंस्तस्यां ततः पुरि ॥२५८॥ पिशाच-शाकिनी-भूत-वेतालादिपरिच्छदः । द्वैपायनासुरः सोऽपि, बभ्राम द्वारिकान्तरे ॥२५९।। उष्ट्रारूढं दक्षिणस्यां, यान्तं रक्तांशुकावृतम् । महिषारूढमात्मानं, स्वप्नेऽपश्यन् पुरीजनाः ॥२६०॥ सीरादि सीरिणो नष्टं, रत्नं चक्रादि शाङ्गिणः । तत्र संवर्तकं वातं, विचकारासुरस्ततः ॥२६१।। काननानि समग्राणि, दिग्भ्योऽष्टाभ्योऽपि वायुना । उन्मूल्य स पुरीं काष्ठ-तृणादिभिरपूरयत् ॥२६२।। भीत्या प्रणश्यतो लोकान् , दिग्भ्योऽप्यानीय दुष्टधीः । द्वारान्तर्निचिक्षेप, क्षणाद् द्वैपायनासुरः ॥२६३|| अथ क्षयानलप्राये, ज्वलने ज्चालिते द्विषा । तत्र बालैश्च वृद्धैश्च, कण्ठलग्नैमिथः स्थितम् ॥२६४।। देवकी-रोहिणीयुक्तं, वसुदेवमथो रथे। क्रष्टुं प्रज्वलनाद् रामयुक्तः कृष्णो न्यवेशयत् ॥२६५।।
१. स्मृतेः प्राप्तो, द्वार० खंता० सं० ॥ २. परिग्रह: खंता० ॥ ३. °षाक्रान्तमात्मा खंता० सं० ॥
D:\maha-k.pm5\2nd proof