________________
३९०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कोपक्रूरारुणाक्षोऽपि, मुनीशः कृष्णमब्रवीत् । सह रामेण मुक्तोऽसि, पुरीदाहेऽतिभक्तिभाक् ॥२४१॥ हन्यमानेन दुर्दान्तैर्मया तव कुमारकैः । बद्धं निदानमद्येति, पूर्दाहोऽस्तु तप:फलम् ॥२४२॥ कृष्णस्तपस्विनेत्युक्तः, सरामः प्रययौ पुरीम् । द्वैपायननिदानं च, तदभूत् प्रकटं पुरे ॥२४३।। अथ कृष्णाज्ञयाऽभूवन् , धर्मनिष्ठाः पुरीजनाः । तदा रैवतकाद्रौ च, श्रीनेमिः समवासरत् ॥२४४।। तत्र गत्वा प्रभुं नत्वा, चाश्रौषीद् देशनां हरिः । प्रद्युम्न-शाम्बौ निषध, उल्मुकः सारणादयः ॥२४५।। कुमारा रुक्मिणी चात्र, सत्याद्याश्च यदुस्त्रियः । बढ्यः संसारनिविण्णा, देशनान्ते प्रवव्रजुः ॥२४६।। युग्मम् ।। समुद्रविजयादीन् स, स्तुवन् प्रव्रजितान् पुरा । निनिन्द स्वयमात्मानं, हरिर्मुहुरदीक्षितम् ॥२४७।। ज्ञातचेताः प्रभुः प्राह, जातुचिन्नैव शाङ्गिणः । भजन्ते संयम बद्धा, यन्निदानेन केशव ! ॥२४८।। किञ्चाधोगामिनः सर्वे, स्वभावेन भवन्त्यमी । श्रुत्वेति विधुरं बाढं, तं स्वामी पुनरभ्यधात् ॥२४९।। मा विषीद हरे ! भावी, त्वमर्हन्नत्र भारते । ब्रह्मलोकं बलो गत्वा, च्युत्वा मो भविष्यति ॥२५०।। देवीभूतस्ततश्च्युत्वा, पुनरत्रैव भारते । भूत्वा ते तीर्थनाथस्य, शासने मोक्षमाप्स्यति ॥२५१॥ श्रुत्वेति नत्वा तीर्थेशं, कृष्णोऽगान्नगरी निजाम् । भगवान् नेमिनाथोऽपि, विजहारान्यतस्ततः ॥२५२।। पुनः कृष्णाज्ञया पौरा, बाढं धर्मपराः स्थिताः ।
द्वैपायनोऽपि मृत्वाऽभूदथ वह्निकुमारकः ॥२५३।। १. °क्षोऽथ, मु खंता० सं० ॥ २. त्मानमेकं मुह खंता० ॥ ३. तदधो सं० ॥
20
D:\maha-k.pm5\2nd proof