________________
10
चतुर्दशः सर्गः]
[३८९ तद्वैपायनो नाम, ब्रह्मचारी दमी शमी । वसन् वनेऽत्र मद्यान्द्यैः, शाम्बाद्यैः स हनिष्यते ॥२२८।। स पुरीं धक्ष्यति क्रुद्धो, यादवैः सह तापसः । भ्रातुर्जराकुमारात् ते, मृत्युर्भावी जरासुतात् ॥२२९।। श्रुत्वा जराकुमारस्तत् , खिन्नचेताः प्रभोर्वचः । ययौ वनं जिनं नत्वा, तूण-कोदण्डदण्डभृत् ॥२३०।। श्रुत्वा द्वैपायनोऽपीदं, नृपरम्परया वचः । सर्वक्षयाय मा भूविमित्यभूद् वनमन्दिरः ॥२३१॥ नेमिं प्रणम्य कृष्णोऽपि, प्रति द्वारवतीं गतः । भावी मद्यादनर्थोऽयमिति मद्यं न्यवारयत् ॥२३२॥ अथ कादम्बरी कादम्बरीस गुहान्तरे । शिलाकुण्डे समीपाद्रेः, पोराः कृष्णाज्ञयाऽत्यजन् ॥२३३।। एवं क्षयभियाऽऽपृच्छ्य, सिद्धार्थः सोदरो बलम् । देवीभूयोपकर्तास्मि, गदित्वेत्यग्रहीद व्रतम् ॥२३४।। स षण्मासी तपस्तप्त्वा, मुनीन्द्रस्त्रिदिवं ययौ । इतश्च कश्चित् कुण्डस्थां, सुरां शाम्बानुगः पपौ ॥२३५॥ शाम्बायाथ सुरापूर्णां, चक्रे दृतिमुपायनम् । आख्यत् पृष्टः स शाम्बेन, शिलाकुण्डे स्थितां सुराम् ॥२३६।। द्वितीयेऽह्नि ययौ शाम्बः, कुमारैः सह दुर्धरैः । अतृप्तश्च पपौ स्वादुरसां स्वादुरसां चिरात् ॥२३७।। द्वैपायनस्तदा ध्यानस्थितः शैलाश्रितः शमी । पूर्दाहहेतुरित्येष, रुषा शाम्बेन कुट्टितः ॥२३८॥ कृत्वाऽथ तं मृतप्रायं, ययुः सर्वेऽपि वेश्मसु । क्रुद्धस्यास्य पुरीदाहे, प्रतिज्ञां श्रुतवान् हरिः ॥२३९।। पटुभिश्चटुभिः शास्त्रवचोभिर्भक्तिभिस्तथा ।
कृष्णस्तं सान्त्वयामास, न पुनः शान्तवानसौ ॥२४०॥ १. °दुर्मदैः खंता० । दुर्दमैः सं० ॥ २. °न पिट्टि खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof