________________
३८८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तां तथा वीक्ष्य कामार्तो, रथनेमिरथाऽवदत् । पुराऽपि प्रार्थिऽसि त्वमद्य मे कुरु वाञ्छितम् ॥२१५।। रथनेमिमथो मत्वा, ध्वनिना भोजनन्दनी । संवृत्ताङ्गी जवादेव, व्रीडाभारादुपाविशत् ॥२१६।। राजीमत्याऽथ जल्पन्त्या, चिरं साधूचितं वचः । प्रत्यबोधि तदा प्रीतो, रथनेमिमहामुनिः ॥२१७।। तदालोच्य प्रभोरग्रे, तपस्तीव्रतरं चरन् । स्वच्छात्मा वत्सरेणासौ, कलयामास केवलम् ॥२१८।। विहृत्य पुनरन्येद्युः, स्वामी रैवतपर्वते । सेवितो देवतावृन्दैः, शमवान् समवासरत् ॥२१९॥ हरिराह सुतान् प्रातर्यः प्रगा नस्यति नेमिनम् । यच्छामि वाञ्छितं तस्मै, वाजिनं रयराजिनम् ॥२२०॥ श्रुत्वेति प्रथमं प्रातर्बालक: पालको मुदा । तुरङ्गस्यैव लोभेन, नेमिनाथं ननाम सः ॥२२१।। शाम्बस्तु प्रस्तुतध्याननिधानीभूतमानसः । स्थानस्थ एव तीर्थेशं, प्रणनाम निशात्यये ॥२२२॥ ययाचे पालकः प्रातर्हयं हरिरथाब्रवीत् । प्रभुः प्राग् वन्दितो येन, दास्ये तस्यैव वाजिनम् ।।२२३।। गत्वाऽथ विष्णना पष्टः स्वामी सम्यगभाषत । द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् ॥२२४।। अभव्योऽयमिति क्रुद्धो, निचक्रे पालकं हरिः । शाम्बाय मण्डलेशत्वमिष्टं च तुरगं ददौ ॥२२५।। देशनान्तेऽन्यदा नेमि, नमस्कृत्य जनार्दनः । पप्रच्छ द्वारकाऽप्येषा, कदाचिद् यास्यति क्षयम् ? ॥२२६।। अथावदद् विभुः शौर्यपुरसीम्नि परासरः ।
सिषेवे तापस: काञ्चित् , कन्या नीचकुलां पुरा ॥२२७।। १. 'तकाचले खंता० ॥ २. नत्वा सं० ॥ ३. °ति श्रुत्वा, निच खंता० ॥
20
25
D:\maha-k.pm5\2nd proof