________________
[३८७
10
चतुर्दशः सर्गः]
इत्यन्तरायमर्जित्वा, कर्म भ्रान्त्वा भृशं भवे । ढण्ढणोऽभूत् सुतो विष्णोः , पूर्वकर्मोदितं च तत् ॥२०२।। समाकर्येति संविग्नः, कृष्णसूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यन्न, मोक्ष्येऽहं परलब्धिभिः ॥२०३।। परलब्धं न तद् भुङ्क्ते, लभते न स्वयं क्वचित् । कालक्षेपमसावित्थं, चक्रे दुष्करकारकः ॥२०४॥ कोऽतिदुष्करकारीति, प्रभुः पृष्टोऽथ विष्णुना । व्याचख्यौ ढण्ढणं साधु , सोढाऽलाभपरीषहम् ॥२०५।। नत्वाऽथ स्वामिनं विष्णुः, पुरं द्वारवतीं व्रजन् । मुनि ढण्ढणमालोक्य, ननामोत्तीर्य कुञ्जरात् ॥२०६।। ववन्दे विष्णुनाऽप्येष, धन्यः कोऽपि मुनीश्वरः । कोऽपि श्रेष्ठीति तं साधुं , मोदकैः प्रत्यलाभयत् ॥२०७।। दर्शयन् मोदकान् सोऽपि, मुनिः प्रभुमभाषत । मम कर्माद्य किं क्षीणं, लब्धा यन्मोदका अमी ? ॥२०८।। जिनो जगाद नो कर्म, क्षणं लब्धिश्च नैव ते । वन्दमानं हरिं दृष्ट्वा , यत् त्वां स प्रत्यलाभयत् ॥२०९।। परलब्धिमभुञ्जानः, स्थण्डिले मोदकान् मुनिः । द्राक् परिष्ठापयन् लेभे, केवलं भूरिभावनः ॥२१०।। प्रभुं प्रदक्षिणीकृत्य, स केवलिसभां गतः । विहृत्याथ भुवि स्वामी, द्वारकां पुनरागमत् ॥२११।। रथनेमिरथान्येधुर्भिक्षां भ्रान्त्वा पुरान्तरे । वलमानो गुहां काञ्चित् , प्रविष्टो वृष्टिपीडितः ॥२१२॥ नेमिं नत्वा तथा राजीमती यान्ती पुरं प्रति । वृष्टिदूना तमोगुप्तां, रथनेमिगुहामगात् ॥२१३।। रनेमिमजानन्ती, तमःस्तोमतिरोहितम् ।
उद्वापयितुमत्रासौ, वस्त्राण्यूाण्यमुञ्चत ॥२१४।। १. न्त्वा चिरं भवे । खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof