________________
३८६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ऊंचे हरिविभुं षष्ट्याऽधिकैयुद्धशतैस्त्रिभिः । न श्रान्तोऽहं तथा नाथ !, यथा वन्दनयाऽनया ॥१९०।। अभ्यधत्त ततः स्वामी, श्रीमन्नद्य त्वयाऽजिते । साक्षात् क्षायिकसम्यक्त्व-तीर्थकृन्नामकर्मणी ॥१९१।। सप्तम्या दुर्गतेरायुरुद्वृत्त्याद्य त्वया हरे ! । साधुवन्दनया बद्धं, तृतीयनिरयावनौ ॥१९२॥ कृष्णोऽवदत् पुनर्देयं, वन्दनं दमिनां मया । नरकायुर्यथा शेषमपि नि:शेषतां भजेत् ॥१९३॥ द्रव्यवन्दनमित्थं ते, न भवेद् दुर्गतिच्छिदे । इत्युक्तः स्वामिनाऽपृच्छद् , वीरकस्य फलं हरिः ॥१९४।। अथाभ्यधत्त तीर्थेशः, क्लेश एवास्य तत्फलम् । वन्दिताः साधवोऽनेन, यतस्त्वदनुवर्तनात् ॥१९५।। नत्वाऽथ नाथमावासे, ययौ द्वारवतीपतिः । ढण्ढणाख्यो हरेः सूनुः, प्राव्रजन्नेमिसन्निधौ ॥१९६।। अन्यदा कर्म तस्योच्चैरुदगादान्तरायिकम् । स्वयं न लभते सोऽयं, हन्ति लाभं परस्य च ॥१९७।। साधवोऽथ जगन्नाथमपृच्छन् किं न ढण्ढणः ।
कुत्रापि लभते किञ्चिन्नगरे ऋद्धिमत्यपि ? ॥१९८।। $ अथावदद् विभुर्गामे, धान्यपूराभिधे पुरा । विप्रो मगधदेशेऽभूदयं नाम्ना परासरः ॥१९९।। ग्रामे राजनियुक्तोऽसौ, ग्राम्यैः क्षेत्राणि वापयन् । सीतामकर्षयद् भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥२००।। बुभुक्षितानपि श्रान्तानपि तृष्णातुरानपि ।
वृषान् दासांश्च स क्रूरो, मुमोच न कथञ्चन ॥२०१।। १. ऊचे विष्णुर्वि सं० ॥ २. °यनरकोचितम् ॥ खंता० सं० ॥ ३. 'नं शमि खंता० सं० ॥ ४. शेषं, मम मूलादपि त्रुटेत् खंता० सं० ।।
15
D:\maha-k.pm5\2nd proof