________________
चतुर्दशः सर्गः]
[३८५ $जननीशिक्षिताऽवोचत् , कन्यका केतुमञ्जरी । भविष्यामि भुजिष्याऽहं, तात ! न स्वामिनी पुनः ॥१७७।। अन्याः कन्या ममेदृक्षं, मा वदन्निति विष्णुना । तद्विवाहधिया पृष्टो, विक्रमं वीरकः स्वयम् ॥१७८।। वीरम्मन्यस्ततो वीरः, कुविन्दोऽवोचदच्युतम् । बदरीस्थो मया ग्राव्णा, कृकलासो हतो मृतः ॥१७९।। चक्रमार्गे मया वारि, वहद्वामाघ्रिणा धृतम् । मक्षिकाः पानकुम्भान्तभृता द्वारस्थपाणिना ॥१८०॥ सभासीनो द्वितीयेऽह्नि, विष्णुर्भूमीभुजोऽवदत् । वीरकस्यास्य वीरत्वं, कुलातीतं किमप्यहो ! ॥१८१॥ येन रक्तस्फटो नागो, निवसन् बदरीवने । निजघ्ने भूमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम् ॥१८२॥ येन चक्रकृता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ॥१८३॥ येन घोषवती सेना, वसन्ती कलशीपुरे । निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥१८४।। इत्युक्त्वा पौरुषं स्पष्टं, क्षत्रियेषु जनार्दनः । वीरेणोद्वाहयामास, स्वकन्यां केतुमञ्जरीम् ॥१८५।। वीरकस्तां गृहे नीत्वा, तस्या दास इवाभवत् । आज्ञया केशवस्याथ, तां दासीमिव चक्रिवान् ॥१८६।। पराभूता तु सा विष्णु, रुदतीदं न्यवेदयत् । कृष्णोऽवोचत् त्वयाऽयाचि, दास्यं स्वाम्यममोचि तत् ॥१८७।। साऽवोचदधुनाऽपि त्वं, पितः ! स्वाम्यं प्रयच्छ मे ।
इति प्रावाजयत् पुत्री, कृष्णोऽनुज्ञाप्य वीरकम् ॥१८८॥ ६६ एकदा प्रददौ विष्णुादशावर्तवन्दनम् ।
विश्वेषामपि साधूनां, मुदा तदनु वीरकः ॥१८९।। १. त्वं, स्वाम्यं तात ! प्राय° खंता० सं० ।।
25
D:\maha-k.pm5\2nd proof