________________
5
10
15
20
25
३८४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
§§ अन्येद्युर्द्वारकां प्राप्तो, वर्षासु श्रीशिवासुतः । ततः प्रभुपणामाय, निर्माय: केशवो ययौ ॥ १६४॥
त्वा शुश्रूषमाणोऽथ, पप्रच्छ स्वामिनं हरिः । न किं चलन्ति वर्षासु, दत्तहर्षाः सुसाधवः ? ॥१६५॥ विश्वचक्षुरथाऽऽचख्यौ, नेमिर्गम्भीरया गिरा । बहुजीवकुलोत्कर्षा, वर्षा तन्नोचिता गतिः ॥१६६॥ श्रुत्वेति श्रीपतिः श्रीमान्, जग्राह नियमं तदा । वर्षासु निःसरिष्यामि, क्वचिन्नाहं गृहाद् बहिः ||१६७|| निश्चित्येति हरिर्नत्वा, नेमिं धाम जगाम सः । कोऽपि मोच्योऽन्तरा नेति, द्वारपालं तथाऽऽदिशत् ॥१६८॥ वीराख्यस्तु पुरे तस्मिन्, कुविन्दो भक्तिमान् हरौ । अविलोक्य हृषीकेशं, न भुङ्क्ते स्म कदाचन ॥१६९॥ आवासे न प्रवेशं स, लेभे द्वारस्थितस्ततः । सपर्यां विष्णुमुद्दिश्य, चक्रे नित्यमभोजनः ॥१७०|| वर्षान्ते निर्ययौ विष्णुर्गृहाद् भानुरिवाम्बुदात् । अपृच्छद् वीरकं धीरः, किं कृशोऽसीति नीतिमान् ॥१७१॥ तत्ते कथिते द्वास्थेर्गृहे सोऽस्खलितः कृतः । वीरकेण समं जग्मे, हरिणा नेमिसन्निधौ ॥ १७२॥
साधुधर्मं जिनाधीशात्, कर्ण्यमाकर्ण्य सोऽवदत् । नास्मि श्रामण्ययोग्योऽहमस्तु मे नियमस्तु तत् ॥१७३॥ न निषेध्यो व्रतात् कश्चित् कार्यः किन्तु व्रतोत्सवः । सर्वस्यापि मया विष्णुरभिगृह्येत्यगाद् गृहम् ॥१७४॥ युग्मम् ॥ विवाह्याः स्वसुताः प्राह, कृष्णस्तन्नन्तुमागताः । स्वामित्वमथ दास्यत्वं, भवतीभ्यो ददामि किम् ? ॥१७५॥ स्वामित्वं देहि नस्तात !, ताभिरित्युदितो हरिः । ग्राहयामास ताः सर्वाः, प्रव्रज्यां नेमिसन्निधौ ॥१७६॥
१. द्वारि स्थि° खंता० ॥ २. ग्मे, नन्तुं च हरिणा प्रभुम् ॥ खंता० सं० ॥
D:\maha-k.pm5\ 2nd proof