________________
चतुर्दश: सर्ग: ]
कृत्वाऽऽहारपरीहारं, तत्र त्रिंशदसौ दिनान् । क्षिप्त्वा निःशेषकर्माणि, मोक्षलक्ष्मीमुपाददे ॥१५२॥ §§ शक्रोऽन्यदा सदस्याह, नाऽऽहवं कुरुतेऽधमम् । दोषान् परेषामुत्सृज्य, भाषते च गुणं हरिः ॥ १५३॥ तदश्रद्दधता मार्गे, चक्रे देवेन केनचित् । दुर्गन्धः श्वा मृतः श्यामः, स्वैरं विहरतो हरेः ॥ १५४॥ गन्धत्रस्तजनं श्वानं, तं प्रेक्ष्य प्राह केशवः । इह श्यामरुचौ दान्ता, भान्ति व्योम्नीव तारकाः ॥१५५॥
SS हयरत्नं हरन्नश्वहरीभूय पुरःसरः ।
ऊचे जितान्यसैन्योऽथ, स्वयमभ्येत्य विष्णुना ॥१५६॥ स्थिरीभव क्व रे ! यासि ?, म्रियसे मुञ्च वाजिनम् । इति वासवकल्पं तं, जल्पन्तं त्रिदशोऽवदत् ॥१५७॥ यच्छन्ति वाञ्छितं युद्धं, शुद्धक्षत्रियगोत्रजाः । पुताहवेन मां जित्वा तद् गृहाण हयं निजम् ॥१५८॥ निषिद्धाधमयुद्धोऽसौ, तुष्टादथ हरिः सुरात् । भेरीं भेजे ध्वनिध्वस्तषाण्मासिकमहारुजम् ॥१५९॥
§§ इति प्रीते सुरे तस्मिन्, गते भेरीं हरिः पुरे | अवादयद् यदा लोके, रोगः क्षयमगात् तदा ॥ १६०॥ अथ लक्षण लक्षेण, तस्या भेर्याः पलं पलम् । विक्रीतं रक्षकेणैषा, पूर्णा श्रीखण्डखण्डकैः || १६१॥ तां निष्प्रभावां तज्ज्ञात्वा, घातयामास रक्षकम् । हरिः सुरात् परां लेभे, भेरीमष्टमभक्ततः ॥१६२॥ तद्भेरी भूरिनादेन, स चक्रे विरुजं पुरम् । पर्जन्यगर्जितेनेव, गतदुःखं महीतलम् ॥१६३॥
[ ३८३
१. 'मद्युतौ द° खंता० सं० ॥ २. क्व भो ! या° खंता० ॥ ३. 'यवंशजाः सं० ॥ ४. 'युद्धोऽथ तुष्टादेष हरिः खंता० सं० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
111
15
20