________________
३८२]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सैष प्रव्रज्य मत्पुत्री, व्यडम्बयदिति क्रुधा । चिताङ्गारचितं मूनि, घटीकण्ठं न्यधाद् द्विजः ॥१४०॥ दग्धकर्मेन्धनोऽङ्गारैस्तैरिवाद्भुतभावनः । गजः केवलमासाद्य, प्रपेदे परमं पदम् ॥१४१॥ वीक्षितुं दीक्षितं प्रातः, सोदरं सादरो हरिः । वन्दितुं च प्रभोः पादांश्चचाल सपरिच्छदः ॥१४२।। चैत्यार्थमिष्टकावाही, द्विजो वृद्धः कृपालुना । कृत्वा कृष्णेन साहाय्यं, ससैन्येन कृतार्थितः ॥१४३।। अथ नेमिं गतो विष्णुः, पप्रच्छ क्व ययौ गजः ? । विभुः सिद्धिं मुनेराख्यद् , वृत्तान्तात् सोमशर्मणः ॥१४४॥ कृष्णोऽपृच्छदथ क्रोधात् , कथं ज्ञेयः स दुर्द्विजः ? । प्रभुः प्राह त्वदालोके, शिरो यस्य स्फुटिष्यति ॥१४५।। रुदन् कृष्णोऽथ संस्कार्य, गजं निजपुरेऽविशत् । सोमं तथामृतं बद्धपादं बहिरचिक्षिपत् ॥१४६॥ यदवो गजदुःखेन, प्राव्रजन् बहवस्ततः । शिवादेवी च दाशार्हा, वसुदेवं विना नव ॥१४७।। विभोः सहोदराः सप्त, चान्ये हरिकुमारकाः । राजीमती चैकनासा, कन्या चान्या यदुस्त्रियः ॥१४८॥ युग्मम् ।। प्रत्याख्याच्च हरिः कन्योद्वाहं सोत्साहमानसः । तत्पुत्र्यः प्राव्रजन् सर्वा, वसुदेवस्य चाङ्गनाः ॥१४९।। देवकी-कनकवती-रोहिणीभिर्विना पुनः । गृहे कनकवत्यास्तु , जातं केवलमुज्ज्वलम् ॥१५०॥ तत्रोामेत्य गीर्वाणैः, क्लृप्तोच्चैःकेवलोत्सवा । प्रव्रज्यां स्वयमादाय, नेमिं वीक्ष्य ययौ वने ॥१५१॥
15
१. तुं प्रभुपादाब्जं, चचा खंता० सं० ॥ २. अथ विष्णुर्गतो नेमि, पप्र सं० । ३. लोकात् , समन्ताद् यः स्फुटच्छिराः खंता० सं० ॥ ४. मृतं पादबद्धं बहि वता० ॥
D:\maha-k.pm5\2nd proof