________________
10
चतुर्दशः सर्गः]
[३८१ तद् दध्यौ देवकी कृष्णतुल्याः किं मे सुता अमी ? । उक्ताऽतिमुक्तकेनाहं, जीवत्पुत्राष्टकाऽसि यत् ॥१२७।। इति श्रीनेमिनं प्रष्टुं , द्वितीयेऽह्नि जगाम सा । ऊचे नाथोऽपि तद्भावं, मत्वा ते षडमी सुताः ॥१२८॥ तेषां जीवितवृत्तान्तमाकर्ण्य च विभोर्मुखात् । सा ववन्दे प्रमोदेन, षडिमान् षडरिच्छिदः ॥१२९॥ ऊचे च मद्भुवां राज्यमुत्कृष्टमथवा व्रतम् । नाङ्के यल्लालितः कोऽपि, सुतस्तदतिबाधते ॥१३०।। प्रभः प्राह त्वयाऽहारि सपत्न्या रत्नसप्तकम । प्राग्भवे यत् त्वया तस्यै, रुदत्यै चैकमर्पितम् ॥१३१॥ तत्प्राक्कर्मफलेनामी, न त्वया पालिताः सुताः । श्रुत्वेति सा ययौ सौधमष्टमात्मजकाङ्क्षिणी ॥१३२॥ मत्वा मातुरभिप्रायं, गोविन्दो नैगमेषिणम् । देवमाराधयामास, तुष्टः सोऽप्येवमब्रवीत् ॥१३३।। भावी तवानुजः किन्तु , यौवने प्रव्रजिष्यति । तच्च तस्मिन् गते कृष्णः, प्रातर्मातुर्यवेदयत् ॥१३४।। तदा च देवकीकुक्षौ, देवः कोऽपि दिवश्च्युतः । अवतीर्णः शुभस्वप्नसूचिताद्भुतवैभवः ॥१३५।। बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो, देवक्या लालितः स्वयम् ॥१३६।। उपयेमे क्षमापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां, सोमशर्मद्विजाङ्गजाम् ॥१३७|| उद्यौवन: समं ताभ्यां, श्रीनेमिव्याख्यया गजः । धीमानुत्पन्नवैराग्यः, प्रियाभ्यां प्राव्रजत् समम् ॥१३८॥ पृष्ट्वा प्रभुं स्मशाने, च, मतिमान् प्रतिमां व्यधात् ।
दृष्टः श्वशुरकेणात्र, ब्रह्मणा सोमशर्मणा ॥१३९।। १. °त्नपञ्चक सं० ॥ २. °स, पृष्टः सोऽप्यवदद् स्यात् खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof