________________
३८०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हेमपात्रेऽन्यदा पीतं, वान्त्वा दुग्धं प्रयोगतः । पिबेदमिति तं नेमिरथं राजीमती जगौ ॥११४।। स तामुवाच स्वानोऽस्मि, किमु वान्तं पिबामि यत् ? । साऽप्याह नेमिवान्तां मां भोक्तुकामोऽसि किं ततः ? ॥११५।। आश्विने मासि पूर्वाह्नेऽमावास्यायां कृताष्टमः । वेतसाधः प्रभुः प्राप, केवलं त्वाष्ट्रगे विधौ ॥११६।। देवैः समवसरणे, विहितेऽथ यथाविधि । अलञ्चक्रे विभुः सिंहासनं सिंह इवाचलम् ॥११७॥ अथाऽऽगतं विभुं मत्वा, हरिः परिजनैः समम् । समागत्य नमस्कृत्य, जिनं हृष्टो निविष्टवान् ॥११८॥ ततश्च वरदत्तादीनेकादश गणेश्वरान् । विभुः प्रवर्तिनी चक्रे, राजपुत्रीं च यक्षिणीम् ॥११९।। देवक्युदरजैः षड्भिर्द्वात्रिंशद्वल्लभायुतैः । नागसद्मस्थितैर्युक्तेऽगाद् भाद्रिलपुरे विभुः ॥१२०॥ अमी चरमदेहाः षट् , प्राव्रजन् नेमिबोधिताः । विजहुः स्वामिना साकं, द्वारकां च ययौ विभुः ॥१२१॥ देवकीसूनवः षट् ते, भूत्वा युगलिन: क्रमात् । देवक्याः सदनं जग्मुः, षष्ठान्ते पारणेच्छया ॥१२२।। मुदिता वीक्ष्य कृष्णाभं, पूर्वायातं मुनिद्वयम् । देवकी मोदकैः सिंहकेसरैः प्रत्यलाभयत् ॥१२३।। द्वितीयं युग्ममायातमप्यसौ प्रत्यलाभयत् । युग्मं तृतीयमायातमथाभाषत देवकी ॥१२४।। किं दिग्मोहान्मुहुः प्राप्तौ, युवां? किं मे मतिभ्रमः ? । किं वा भक्तादिकं नात्र, लभन्ते पुरि साधवः ? ॥१२५।। तावूचतुः किमाशङ्का ?, यद् वयं षट् सहोदराः ।
त्रिधा युगलिनो भूत्वा, भृशं त्वद्गृहमागताः ॥१२६।। १. गशर्मस्थि° खंता० ॥ २. भद्दिल सं० ॥ ३. साधू, द्वा सं० ॥
20
25
D:\maha-k.pm5\2nd proof