________________
[३७९
चतुर्दशः सर्गः]
क्रन्दन्तीति वयस्याभिर्निषिद्धा कथमप्यसौ । निश्चिकायेति शैवेय, एव देवोऽस्तु मे गतिः" ॥१०१।। ववर्ष वार्षिकं दानमितश्च श्रीशिवासुतः । समुद्रविजयादीनां, जलं च नयनोच्चयः ॥१०२॥ क्लृप्तदीक्षाभिषेकोऽयमथाशेषैः सुरेश्वरैः । नाम्नोत्तरकुरुं रत्नशिबिकामारुरोह सः ॥१०३॥ सुरा-ऽसुर-नरैर्मातृ-जनक-स्वजनैरपि । स्वामी परिवृतो राजपथेन प्राचलन्मुदा ॥१०४॥ तदाऽऽलोक्य गृहासन्नं, प्रसन्नं नेमिनं जिनम् । अवाप व्याकुला राजीमती मूर्छा मुहुर्मुहुः ॥१०५।। अथाऽऽससाद श्रीनेमिः, सहस्राम्रवणं वनम् । वनान्तलक्ष्मीधम्मिल्लतुल्यरैवतकाचलम् ॥१०६।। पूर्वाह्ने श्रावणश्वेतषष्ठ्यां षष्ठेन स प्रभुः । पूर्णाब्दत्रिशतीकोऽथ, प्राव्रजत् त्वाष्ट्रगे विधौ ॥१०७॥ प्रतीष्य केशान् देवेशो, दूष्यं स्कन्धे विभोय॑धात् । तान् परिक्षिप्य दुग्धाब्धौ, तुमुलं च न्यषेधयत् ॥१०८॥ सामायिकमथाऽऽदाय, मनःपर्ययमासदत् । श्रीमान् नेमिश्च सौख्यं च, प्रपेदे नारकैरपि ॥१०९।। भूभुजः प्राव्रजंस्तत्र, सहस्रं सह नेमिना । स तैः प्रभाद्भुतैर्व्याप्तः, सहस्रांशुरिवाऽऽबभौ ॥११०।। अथ नत्वा गते लोके, परमान्नेन पारणम् । द्वितीयेऽह्नि विभुश्चक्रे, वरदत्तद्विजौकसि ॥१११॥ अथोत्सवे कृते तत्र, त्रिदशेशैर्यथाविधि । विजहारन्यतः स्वामी, कर्मनिर्मथनोद्यतः ॥११२।। रथनेमिरथो नेमेरनुजो मदनातुरः ।
उपाचरच्चिरं राजीमती पाणिग्रहेच्छया ॥११३।। १. वात्मजः सं० ॥
D:\maha-k.pm5\2nd proof