________________
5
10
15
20
३७८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् संसारसुखमापातमधुरं स्यादपथ्यवत् । प्रियङ्करः प्रियश्चायं, शमस्तु कटुजायुवत् ॥८९॥ सर्वेषां तत् प्रियाकर्तुं प्रशमोऽयं श्रितो मया । हितं यत् परिणामे हि, हितं तत् पारमार्थिकम्" ॥९०॥ इत्युक्त्वा स्वजनेष्वश्रुगद्गदेषु रुदत्स्वपि । समाजगाम श्रीनेमिर्गृहमुद्वाहनिःस्पृहः ॥९१॥ तदा च समयं ज्ञात्वा, प्रभुर्लोकान्तिकामरैः । मुदा विज्ञपयाञ्चक्रे, नाथ ! तीर्थं प्रवर्तय ॥ ९२ ॥ अथाऽसौ वार्षिकं दानं, दातुं प्रारब्धवान् प्रभुः । कारुण्यसागरः क्लृप्तव्रतग्रहणनिश्चयः ॥९३॥ अन्तश्चलिते विश्वस्वामिन्यथ रवाविव । भेजे मूर्च्छामियं राजीमती राजीविनीव सा ॥९४॥ अमन्दैचन्दनस्यन्दैः, कौमुदीकोमलैरथ । अभिषिक्ता वयस्याभिर्बुद्धा कुमुदिनीव सा ॥९५॥ सकज्जलैरश्रुजलैः, कपोललुलितैरथ । विललापेयमेणाङ्कबिम्बयन्ती मुखाम्बुजम् ॥९६॥ "रे दैव ! यदि भाले मे, न नेमिलिखितः पतिः । ततः किमियतीं भूमिं, त्वयाऽहमधिरोपिता ? ॥९७॥ यदि नेर्मनि मे भावी, भर्ता किं ढौकितस्ततः ? | तन्नाऽलब्धनिधेर्दुःखं, दृष्टनष्टनिधेर्हि यत् ॥९८॥ क्वाऽहं ? क्व नेमिरित्यासीत्, त्वत्पतित्वे मनोऽपि न । त्वद्गिरैव विवाहार्थे, स्वामिन्नस्मि प्रतारिता ॥९९॥
त्वयाऽरोपि ममोद्वाहमनोरथतरु स्वयम् । उन्मूलयन्निमं स्वामिनात्मनोऽपि न लज्जसे ? ॥१००॥
१. ° यस्यायं खंता० ॥ २. 'षु वद° खंता० ॥ ३ ° न्दचन्द खंता० सं० ॥ ४. यन्नमुं स्वा खंता० ॥
D:\maha-k.pm5 \ 2nd proof